________________
श्रीधीरसुन्दरसू० आव०अवणिः
॥१३८॥
गाथा-१०८.९
पढमिल्लुयाण उदए नियमा संजोयणाकसायाणं ।
सम्मइंसणलंभं भवसिद्धीयावि न लहंति ॥१०॥ प्रथमा एव प्रथमेल्लुकाः, देशीवचनमेत , अनन्तानुबन्धिनस्तेषा, प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविघातित्वात् क्षपणक्रमाद्वा, उदयः उदीरणावलिकाप्रविष्टानां तत्पुद्गलानामुद्भूतसामार्थ्यता तस्मिन्नुदये नियमादित्यस्य व्यवहितः सम्बन्धः, किंविशिष्टानां ? कर्मणा सह संयोजयन्ति जीवमिति संयोजनास्ते च ते कपायाश्च संयोजनाकषाया स्तेषां, नियमेन सम्यग्दर्शनलाभ, भवे सिद्धि । ते भवसिद्धिकाः, ननु सर्वेषामेव भवे सिद्धिः स्यात् , ततः किं भवग्रहणेन ?, सत्यमेतत् , केवलं भवग्रहणादिह तद्भवो गृह्यते, तद्भवसिद्धिका अपि न लभन्ते, कि पुनः परीससंसारिणोऽभव्या वा? ॥१०८॥ अथ देशविरत्यावरणभृतान् तानाह
बिइयकसायाणुदए अपच्चक्खाणनामधेज्जाणं ।
सम्मइंसणलंभ विरयाविरई न उ लहंति ॥१०९॥ द्वितीयकषायाणां, द्वितीयता च देशविरतिलक्षणद्वितीयगुणघातित्वात् क्षपणक्रमाद्वा, न विद्यते देशतः
॥१३८॥
Jain Education Intetane
For Private & Personal use only
Hallainelibrary.org