SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीधीरसुन्दरसू० ओव०अवणिः ॥१३६॥ गाथा-१०७ प्रतीपमनुप्रयातः, अपरस्तु ताभ्यामेव गृहीतः, अन्यस्तु तौ द्वावप्यतिक्रम्येष्ट' नगर प्राप्तः, अयमुपनयः इह स साराटव्यां पुरुषास्त्रयः संसारिणः कलप्यन्ने,पन्थाः, कर्मस्थितिरतिदीर्घा, भयस्थानं ग्रन्थिदेशः, द्वौ तस्करौ रागद्वेषौ, तत्र प्रतीपगामी यो यथाप्रवृत्तकरणेन ग्रन्थिदेशमासाद्य पुनरनिष्टपरिणामः सन्नुत्कृष्टों कर्मस्थितिमासादयति, तस्करद्वयावरुद्धस्तु प्रबलरागद्वेषोदयो ग्रन्थिकसत्वः, अभिलषितनगरानुप्राप्तम्तु अपूर्व करणतो रागद्वेषचौरावपाकृत्यानिवृत्तिकरणेनावाप्त सम्यक्त्व इति ४, आह- स हि सम्यग्दर्शनमुपदेशतो लभतेऽनुपदेशतो वा?, उच्यते, उभयथा, यथा कश्चिन्नरः पथभ्रष्टः परिभ्रमन् स्वयं पन्थानमासादयति, कश्चित्तु परोपदेशेन, अपरस्तु नासादयत्येव, एवमिहाप्यत्यन्तप्रणष्टसत्पथजीवो यथाप्रवृत्तात् संसाराटव्यां भ्रमन् कश्चिद् ग्रन्थिमासाद्यापूर्वेण तमतिक्रम्यानिवृत्तिकरणमनुप्राप्य स्वयमेव सम्यग्दर्शनादिरूप निर्वाणपन्थानं लभते, कश्चित्परोपदेशात , प्रतीपगामी ग्रन्थिकसवो वा नैव लभते ५। ज्वरः कश्चित्स्वयमेवापति, कश्चिद्भेषजोपयोगेन, कश्चिन्नैव, एव' मिथ्यादर्शनमहाज्वरोऽपि कश्चित् स्वयमेवापति, कश्चिदईद्वचनभेषजोपयोगात , अन्यस्तु तदौषधोपयोगेऽपि नापति, करणत्रययोजना स्वय कार्या ६, केषाञ्चित् काद्रवाणां मदनभावः स्वयमेव कालान्तरतोऽपैति, केषाञ्चिद् गोमयादिपरिकर्मतः, अन्येषां तथापरिकर्मणायामपि नापति, एवं मिथ्यादर्शनभावोऽपि केषाश्चित् स्वयमेवापति, अन्येषामुपदेशकर्मतः, अन्येषां नैव, इह च भावार्थः- स हि जीवोऽपूर्वकरणेन मदनार्द्धशुद्धशुद्धकोद्रवानिव दर्शन मिय्थात्वमिश्रसम्यकत्वभेदेन त्रिधा विभज्य ततोऽनिवृत्तिकरणविशेषात् सम्यकत्वं प्रामोति, एवं करणत्रययोगवतो ॥१३६॥ Jain Education Interna For Privale & Personal use only nelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy