________________
श्रीधरसुन्दरसू०| आव० अवचूर्णि
॥१०॥
Jain Education Interna
त्पादनका समकालं मतिश्रुते लब्धिमात्रमेवांगीकृत्य प्रोच्येते उपयोगापेक्षया, न खलु मत्युपयोगेनासं चित्य श्रुतग्रंथानुसारिविज्ञानमासादयति जन्तुः, ततो न कचिद्दोषः । अथ मतिश्रुतयोः किंकृतो भेदः ? उच्यते लक्षणभेदादिकृतः, उक्त च "लखणभेआ हेउफलमेआओ" भेअं इंदियविभागो । बागकखरमूएअरमेआ भेआ महसुआणं ॥ १ ॥ " तत्र लक्षणभेदा मेरो भाव्यते, अभिमुख योग्यदेशावस्थितं नियतमर्थ इन्द्रियमनोद्वारेणात्मा येन परिणामविशेषेगावबुध्यते स परिणामविशेषो ज्ञानापरपर्याय आभिनिवोधिकं शृणोति वाच्यवाचकपुरस्सरं श्रणविषयेण शब्देन सह संस्पृष्टमर्थ परि च्छिनत्ति येन परिणामविशेषेण आत्मा स परिणामविशेषः श्रुतं, अयं च लक्षणभेदो नंबध्ययने साक्षादुक्तः ननु यद्येवं लक्षणं श्रुतं तर्हि य एव श्रोत्रेन्द्रियलब्धिमान् भाषालब्धिमान् वा तस्यैव श्रुतमुपपद्यते, न शेषस्यैकेन्द्रियस्य, तथाहि यः श्रोत्रन्द्रियलब्धिमान् भापालब्धिमान् वा स विवक्षितं शब्दं श्रुत्वा तेन शब्देन वाच्यमर्थ प्रतिपत्तुमिष्टे न शेषः, तस्य तथारूपशक्तथभावात्, योऽपि च भाषालब्धिमान् भवति द्वीन्द्रियादिः सोऽपि प्रायः स्वचेतसि किम विकल्प्य तदभिमानतः शब्दमुद्भिरति नान्यथा, ततस्तस्यापि श्रुतं संभाव्यते, यस्त्वेकेन्द्रियः स न श्रोत्रेन्द्रियलब्धिमान् नापि भापालब्धिमान् ततः कथं तस्य तद्यते ? अथ प्रवचने तस्यापि श्रुतं वर्ण्यते, ततः प्रागुक्त' श्रुतलक्षणं न सम्यगिति नैष दोषः इह तावदेकेन्द्रियणामाहारादिसंज्ञा विद्यन्ते, तथा सूत्रे नैकशोऽमिधानात् संज्ञा वाभिलाष उच्यते यदुक्तमस्यैवावश्यकस्य मूलटी काय - आंहारसंज्ञाऽहाराभिलाषः, क्षुद्वेदनीयप्रभवः खल्बसौ परिणामविशेष इति, अभिलापश्च ममैवंरूपं वस्तु पुष्टिकारि, तद्यदीदमवाप्यते ततः समीचीनं भवति इत्येवं शब्दार्थोल्ले
For Private & Personal Use Only.
गाथा - १
॥१०॥
inelibrary.org