________________
गाथा-१०४
श्रोधीरसुन्दरसू० आव०अवचूर्णिः ॥१३१॥
हेतुर्डेय:-क्षायोपशमिकत्वादवधिज्ञानवत् , क्षायिकज्ञानाद्यवाप्तौ च मोक्षप्राप्तिरिति तवं, अतः श्रुतस्यैव क्षायोपशमिकत्वं दर्शयन्नाह
भावे खओवसमिए दुवालसंगपि होइ सुयनाणं ।
केवलियनाणलंभो नन्नत्थ खए कसायाणं ॥१०४॥ क्षायोपशमिके भावे द्वादशाङ्ग भवति श्रुतज्ञानं, अपेरङ्गबाह्यमपि, उपलक्षणं चैतत् , तेन मत्यादिज्ञानत्रयमपि सामायिकचतुष्टयमपि च, तथा केवलस्य भावः कैवलस्य-घातिकर्मवियोगस्तस्मिन् सति ज्ञानं कैवल्यज्ञानं तस्य लाभ: कषायाणा-क्रोधादीनां क्षये सति, न अन्योति तृतीयार्थे सप्ततमी अन्येन प्रकारेण, इह च छद्मस्थवीतरागावस्थायां कषायक्षये सत्यपि अक्षेपेण कैवल्यज्ञानामावे ज्ञानावरणक्षयानन्तरं च भावेऽपि कषायक्षयग्रहणमत्र प्राधान्यख्यापनार्थ, कपायक्षय एव सति निर्वाणं भवति, तद्भावे त्रयाणामपि सम्यक्त्वादीनां क्षायिकत्वसिद्धेः, नन्वेवं तर्हि यदादावुक्त 'श्रुतज्ञानेऽपि वर्तमानः सन् न प्राप्नोति मोक्ष', यस्तपःसंयमात्मकयोगशून्य' इति, तद्विशेषणमनर्थक, श्रुते सति तपः संयमात्मकयोगसहिष्णोरपि मोक्षाभावात् , उच्यते, सत्यमेतत् , किन्तु क्षायोपशमिकसम्यरत्वश्रुतचारित्राणामपि समुदितानां क्षायिकसम्यक्त्वादिनिबन्धनत्वेन पारम्पर्येण मोक्षहेतुत्वाददोषः, आह-इष्टमस्मामिर्मोक्षकारणकारणं श्रुतादि, तस्यैव कथ लामोऽलामो वा ?, ॥१०४॥ उच्यते
॥१३१॥
Sain Education International
For Private & Personal use only
www.jainelibrary.org