________________
गाथा-१०२
श्रीधीरसुन्दरसू० आव०अवचूर्णिः ॥१२९।।
मार्गमनानन्त्रग्निभृतखान्यां पतित्वा दग्धः, एवं ज्ञान्यपि क्रियाहीनो न कर्माग्नेः पलायितु समर्थः क्रिया- I विकलत्वात् , नापीतरो ज्ञानविकलत्वात् , अत्र प्रयोगो-ज्ञानमेव विशिष्टफलसाधकं न भवति, सत्क्रियायोग- शून्यत्वात् , नगरदाहे पगुलोचनविज्ञानवत् नापि क्रियैव विशिष्टफलप्रसाधिका, सज्ज्ञानरहितत्वात् , नगरदाह एवान्धस्य पलायनक्रियावत् , समुदिते पुननिक्रिये फलायालम् ॥१०१।। तथा चाह
संजोगसिद्धीइ फलं वयंति, न ह एगचक्केण रहो पयाइ ।
अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं पविट्ठा ॥१०२॥ ज्ञानक्रिययोः संयोगनिष्पतावेव मोक्षलक्षण' फलं वदन्ति अर्हन्तः, नहि लोकेऽप्येकचक्रेण स्थः प्रवर्तते, एवमन्यदपि सामग्रीजन्यं कार्य सर्व ज्ञेयं, अत्र दृष्टान्तः-अन्धश्चपङगुश्च बने समेत्य-मोलित्वा नगर प्रविष्टौ, समेत्येत्युक्तेऽपि तौ सम्प्रयुक्ताविति पुनभिधानं आत्यन्तिकसंयोगप्रदर्शनार्थ, एवं ज्ञानक्रियाभ्यां सिद्धिपुरमवाप्यते, प्रयोगश्च-विशिष्टकारणसंयोगोऽभिलपितकार्यप्रसाधकः, सम्यकक्रियोपलब्धिरूपत्वात् , अन्धपङ्गोरिख नगरावाप्तेः, यः पुनरभिलपितफलासाधको न स्यात् स सम्यककियोपलब्धिरूपोऽपि स्यात् , इष्टगमनक्रियाविकलविघटित कचक्ररथवदिति व्यतिरेकः, अत्रज्ञात'-एकस्मिन्नरण्ये राजभये पुराददस्य दृष्यलोकस्तस्त्थो, पुनरपि धादिभयेन जने नष्टे वनदवे लग्ने अन्धः पङ्गु स्कन्धे आरोप्य तद्वचसाऽग्न्यादि परिहरन् सुखेन प्राप पुग्म ,
॥१२९॥
Jain Education international
For Private & Personal use only
www.jainelibrary.org