________________
श्रीधीरसुन्दरसू० आव०अवणिः ॥१२८॥
गाथा-१००-1
RAN
अल्पमपि श्रुतमधीतं चरणयुक्तस्य-सावद्येतस्योगनिवृत्तिप्रवृत्तिपरिणामरूपचरणलक्षणचक्षुष्मतः प्रकाशकं भवति, एकोऽपि यथा प्रदीपः सचक्षुष्कस्य प्रकाशयति ॥९९।। नन्वित्थं सति चरणरहितानां ज्ञानं सुगतिफलापेक्षया निर्थक' प्राप्नोति, उच्यते, इष्यत एव यत आह
जहा खरो चंदणभारवाही, भारस्स भागी न हु चंदणस्स ।
एवं खु नाणी चरणेण हीणो, नाणस्स भागी न हु सोग्गईए ॥१०॥ यथा खरश्चन्दनभारवाही भारस्य भागी नतु चन्दनस्य, एवमेव ज्ञानी चरणेन हीना ज्ञानस्य भागी नतु नैव सुगतेः ॥१०॥
इदानी विनेयस्य मा भूदेकान्तैव ज्ञानेऽनादरो, भविष्यति च क्रियायां, तच्छ्न्यायामपि पक्षपातः अतो द्वयोरपि केवलयोरिष्टफलासाधकत्वं दर्शयन्नाह
हयं नाणं कियाहीणं, हया अन्नाणओ किया ।
पासंतो पंगुलो दइढो, धावमाणो अ अंधओ ॥१०१॥ अत्र भावार्थ:-पग्बन्धष्टान्ताज्ज्ञेयः-एकस्मिन्नगरे प्रदीपनके संवृत्ते पुरजने पलायमाने सति पङ्गुरनाथो गमनक्रियाऽभावाज्जानन्नपि पलायनमार्ग क्रमागतेनाग्निना दग्धो, अन्धोऽपि च गमनक्रियायुक्तः पलायन
॥१२८॥
Jain Education Intel
For Private & Personal use only