________________
गाथा-९८-९९
श्रीधीरसुन्दरसू० आव० अवचूर्णिः ॥१२७॥
मिथ्यादर्शनादितमोनुगताद् विविधशरीरमानसनेत्रकर्णवेदनावरकुष्ठभगंदरेप्टवियोगानिष्टसंयोगादिदुःखजलचरानुगतात् संसार एव सागरस्तस्मात् क्वचिदेव मनुष्यभवप्राप्तियोग्यकर्मादयलक्षणं न्ध्रमासाद्य मनुष्यत्वप्राप्त्या उन्मग्नः सन् जिनचन्द्रवचनकिरणावबोधमासाद्य दुष्प्रापोऽयं जिनवचनबोधिलाभ इत्येवं जानानः स्वजनस्नेहविषयातुरचित्ततया मा पुनः कूर्मवत् तत्रेव निमजेत् , ननु अज्ञानी कर्मों निमज्जत्येव, इत्तरस्तु हिताहितप्राप्तिपम्हिारज्ञो ज्ञानी ततः कथ निमज्जति ?, उच्यते-चरणगुणे विविध प्रकर्षेण हीनः, ततः सुबह्वपि अपिशब्दादलूपमपि जानन्निमज्जति, यद्वा निश्चयनयेनाज्ञ एवासौ. ज्ञानफलशून्यत्वात् ॥१७॥ प्रकृतमेवार्थ समर्थयन्नाह
सुवहुंपि सुयमहीयं किं काहि ? चरणविप्पहीणस्स ।
अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥९८॥ सुबह्वपि श्रुतमधीत किं करिष्यति चरणविहीणस्य ?, न अकिश्चित्करमेवेति भावः, तत्फलाभावात् , यथाऽन्धस्य प्रदीप्तानां दीपानां शतसहस्राणि-लक्षास्तेषां कोट्यपि, अपेद्वर्यादिकोटयोऽपि ॥९८ ।। व्यतिकरेमाह
अप्पंपि सुयमहीयं पयासयं होइ चरणजुत्तस्स । इक्कोवि जह पईवो सचक्खुअस्सा पयासेइ ॥९९॥
॥१२७||
Jain Education International
For Private & Personal use only
www.jainelibrary.org