________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥१२६॥
गाथा-९६-९७
तहनाणलद्धनिज्जामओवि सिद्धिवसहि न पाउणइ ।
निउणोवि जीवपोओ तवसंजममारुअविहूणो ॥१६॥ तथा श्रुत्रज्ञानमेव लब्धो निर्यामको येन तथा, अपेः सुनिपुणमतिसुकर्णधारायधिष्ठतोऽपि, संयमतपा नियमरूपेण मारुतेन विहीनो निपुणोऽपि जीवपोतो भवार्णवं तीर्ला सन्मनास्थवणिजोऽभिप्रेतां सिद्धिवसतिं न प्राप्नोति तस्मात्तपः संयमानुष्ठानेऽप्रमादवता भाव्यम् ॥१६॥ तथा चौपदेशिकमेव गाथासूत्रमाह
संसारसागरओ उब्बुड्डो मो पुणो निबुड्डिज्जा ।
चरणगुणविष्पहीणो बुइडइ सुबहुंपि जाणंतो ॥९७॥ अस्याः पदार्थों दृष्टा-नेनोच्यते, यथा-कश्चित् कच्छपः प्रचुरतृणपत्रपटलनिबिडतमशैवलाच्छादितोदकान्धकारमहाहदान्तर्गतो विविधानेकजलचरक्षोभादिव्यसनव्यथितचेतोः सर्वतो भ्रमन् कथमपि शैवालरन्घमासाद्य शरदि पार्वणचन्द्रचन्द्रिकास्पर्शसुखमनुभृय भूयोऽपि स्वबन्धुस्नेहाकृष्टचेतोवृत्तिस्तेषामप्यदृष्टकल्याणानामहमिदं सुरलोककल्पं किमपि दर्शयामीति अवधार्य हृदमध्ये निमग्नः, ततः समासादितवन्धुवर्गस्तद्दर्शननिमित्तं विवक्षितरन्ध्रीपलब्ध्यर्थ पर्यटन् अपश्यंश्च कष्टतर व्यसनमनुभवति स्म, एवमयमपि जीवकच्छपोऽनादिकर्मसन्तानपटलाच्छादितात्
॥१२६॥
Jain Education in
For Private & Personal use only
www.jainelibrary.org