________________
श्रीधीरसुन्दरसू० आव अवचूर्णिः
॥१२५।।
सुअनाणंमिवि जीवो वर्सेतो सो न पाउणइ मोक्खं ।
जो तवसंजममइए जोए न चएइ वोढुं जे ॥९४॥ श्रुतज्ञाने अपिशब्दान्मत्यादिष्वपि ज्ञानेषु जीवो वर्तमानः सन् न प्राप्नोति मोक्षमित्येनेन प्रतिज्ञार्थः सूचितः, यस्तपःसंयममयान्-तपःसंयमात्मकान् योगान् न शक्नोति बोटुमिन्यनेन हेत्वर्थः, जे इति पादपूरणे, दृष्टान्तश्चाभ्युह्यो वक्ष्यति वा, प्रयोगश्च-न ज्ञानमेवेप्सितार्थ प्रापकं क्रियाविरहात् , स्वदेशप्राप्त्यभिलषितगमनकियाशून्यमार्गज्ञज्ञानवत् , सौत्रो वा दृष्टान्तः, मार्गज्ञनिर्यामक्राधिष्ठितेप्सितदिकसम्प्रापकपवनक्रियाशून्यपोतवत् ।।९।। तथा चाह
जह छेयलद्धनिज्जामओवि वाणियगइच्छियं भूमि ।
वाएण विणा पोओ ण चएइ महण्णवं तरिउ ॥९५॥ येन प्रकारेण छेको दक्षो लब्धः-प्राप्तो निर्यामका येन पोतेन सः, अपेः सुकर्णधाराधिष्ठितोऽपि, वणिज इष्टा वणिगिष्टा तां भूमि महार्णवं तीवा वातेन विना न शक्नोति पोतो, प्राप्तुमिति वाक्यशेषः ॥९५।। उपनयमाह
गाथा-९४-९५
॥१२५॥
Jain Education international
For Privale & Personal use only
www.jainelibrary.org