________________
गाथा-९३
श्रीधीरसुन्दरसू० ओव०अवचूर्णिः ॥१२४॥
यकमहन भाषते नतु साक्षादर्थ, गणभृतोऽपि शब्दात्मकमेव ग्रथ्नन्ति, कोन विशेषः ?, उच्यते, स हि भगवान् विशिष्टमतिसम्पन्नगणधरापेक्षया प्रभूतार्थ मर्थ मात्र स्वल्पमेवाभिघत्ते, नवितरजनसाधारणग्रन्थराशि, गणभृतस्तु न तथेति, तत्पुनः सूत्रम् ॥९२. किमादि ? किं पर्यन्त ? कियत्परिमाण?, को वाऽस्य सार इत्याह
सामाइयमाईयं सुयनाणं जाव बिन्दुसाराओ।।
तस्सवि सारो चरणं सारो चरणस्स निव्वाणं॥९३॥ सामायिकमादौ यस्य तत्सामायिकादि यावद्विन्दुसाराख्यचतुर्दशपूर्वपर्यन्तमित्यर्थः, यावच्छब्दात्तन्मूलभेदापेक्षया द्विभेद अङ्गप्रविष्टमनङ्गप्रविष्टञ्च, अङ्गप्रविष्ट द्वादशभेदामाचारादिभेदात् , अनङ्गप्रविष्टमने कमेद आवश्यकतद्वथतिरिक्तकालिकोत्कालिकादिभेदात् , तस्यापि श्रुतस्य सारश्चरणं, सारोत्र प्रधानवचनः, ननु ज्ञानक्रियाभ्यां समुदिताभ्यां मोक्ष इति समानत्वमेवोभयोः, ततश्च कथं ज्ञानस्य सारश्चरणमिति ?, उच्यते, इह यद्यपि “सम्यग् दर्शनज्ञानचारित्राणि मोक्षमार्ग" इति समान ज्ञानचरणयोनिवागहेतुत्वमुपन्यस्त, तथापि गुणप्रधानभावोऽस्ति, ज्ञानं प्रकाशकं, चरणं त्वभिनवकर्मादाननिरोधकल इति ज्ञानचरणरूपद्विकाभित्रीने। मोक्षः, तथापि प्रकाशकतथैव व्याप्रियते ज्ञानं कर्ममलशोधकतया तु चरणमिति गुणप्रधान भावाचरणं ज्ञानस्य सारः, अपिशब्दात् सम्यक्त्वस्यापि सारश्चरणं, सम्यग्दर्शनादित्रयस्य समुदितस्यैव निर्वाणहेतुत्वात् ।।१३।। तथा चाह नियुक्तिकृत्
||१२४||
H
imalibrary.org
Sain Education Inter14
For Private & Personal Use Only