________________
श्री धीरसुन्दरसू० आव० अवचूर्णिः ॥ १२३ ॥
Jain Education International
भगवता तीर्थकरेणोक्तं वचनवृन्द' मुत्कलकुसुमनिकुरम्बमिव सर्वात्मना ग्रहीतुं न शक्यते, ग्रथितं सद् ग्रहीतु सुख' भवति, पदवाक्यप्रकरणाध्यायोद्देशाध्ययनप्राभृतवस्त्वादिनियतक्रमव्यवस्थापितं जिनवचनमिति विवक्षया, प्रवर्द्धमानेोत्साहेन यत्नत एव ग्रहीतुं शक्यते, चः समुच्चये, तथा गुणनं परावर्तनं गणनं वा एतावदधीतमेतावच्चाध्येतव्यमिति, धारणा त्वविस्मृतिः, ते अपि ग्रथिते सति सुखं भवतः दातु शिष्येभ्यः प्रष्टुञ्च सशयापनोदार्थं गुरुपादमूले, चः पूर्ववत् एवकारस्य तु व्यवहित सम्बन्धः - ग्रहीतु सुखमेव भवतीति एतैरनन्तरोक्तकारणैर्हेतुभूतैः जीयन्ति- प्राकृतत्वाद्यथा जीवस्य जीवित जीवन्मात्ररूपं न कदाचिद्रथवच्छेदमुपयाति तथा श्रुतमपि सदाऽवस्थानं स्यादित्येवमर्थ कृतं प्रथित' गणधरैः, अथवा जीत-आचरित कल्पः सर्वेषां गणभृतां इद सन्दर्भणीयं तीर्थ करवचनमिति तैः कृतम् ॥ ९१ ॥ तथा चाह
अत्थं भासइ अरहा सुतं गंधति गणहरा निउणं । सासणस हिट्ठाए तओ सुत्तं पवत्त ॥ ९२ ॥
अर्थ मात्रमेवान् भाषते, सूत्रं प्रवर्तते, नन्वर्थोऽनभिलाप्यस्तस्याशब्दरूपत्वादतस्त' भगवान् कथ भाषते १, उच्यते, शब्द एवार्थं प्रत्यायनकार्यत्वादुपचारतोऽर्थः यथाऽऽचारवचनत्वादाचार इत्यादि, ननु च शब्दमेवार्थ प्रत्या
For Private & Personal Use Only
गाथा - ९२
॥ १२३॥
www.jainelibrary.org