________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥१२०॥
गाथा-८७-९
कृतावश्यकप्रथमाध्ययनसामायिकाख्योपोद्घातनियुक्तिमभिधित्सुराह
सामाइयनिज्जुत्तिं वुच्छं उवएसियं गुरुजणेणं ।
आयरियपरंपरएण आगयं आणुपुव्वीए ॥८७॥ सामायिकनियुक्तिं वक्ष्ये उपदेशितं गुरुजनेन-तीर्थ करगणधरलक्षणेन, पुनरूपदेशकालादारभ्य आचार्यपारंपर्येणागतं, स च परंपरको द्विधा द्रव्यतो भावतश्च, तत्र द्रव्यपरंपरका पुरुषपारंपर्येणेष्टकानामानयनं, भावपरंपरकस्त्वियमेव उपोद्घातनियुक्तिराचार्यपार पर्येणागता, कथं ?, आनुपूर्व्या-परिपाट्या, सुधर्मस्वामिनो जम्बूस्वामिना ततः प्रभवेन ततोऽपि शय्यंभवादिभिरित्यादि, ननु द्रव्यस्येष्टकादेयुक्त पारंपर्येणागमनं, भावस्य तु श्रुतपर्यायरूपत्वाद्वस्त्वन्तरसंक्रमणाभावात् पारंपर्येणागमानुपपत्तिः, न च तद्बीजभूतगणधरतीर्थकरशब्दस्यागमनमस्ति, तस्य श्रुतानन्तरमेवोपरमात् , अत्रोच्यते, उपचाराददोषः, यथा कापिणाद् घृत, घटादिभ्यो वा रूपविज्ञानमिति, एवमियमाचार्यपारंपर्य हेतुत्वात्तत आगतेत्युच्यते, आगतेव आगता, बोधवचनश्चायमागताशब्दो, न गमिक्रियावचन इति ॥८७। साम्प्रत नियुक्तिस्वरूपाभिधानायाह
णिज्जुत्ता ते अत्था जं बद्धा तेण होइ णिज्जुत्ती । तहविय इच्छावेइ विभासिङ सुत्तपरिवाडी ॥८॥
॥१२०॥
Jain Education International
For Privale & Personal use only
library