________________
गाथा-८४-८
श्रीधीरसुन्दरसू० ओव० अवणिः
॥११८॥
अर्थस्तु सूत्राभिधेयः प्रणीत एव, अर्थश्च पृथक्त्व' च अर्थपृथक्त्व तस्य, श्रुतज्ञानविशेषणमेतत् सूत्राभियरूपस्ये त्यर्थः, तैः-तीर्थकरगणधरादिभिः कथितस्य, भगवत इति स्वरूपाभिधानं, कोऽर्थः १, तद्वतां समग्रैश्वर्यादिगुणकलोपोपेतत्वेन भगवत्वात् , श्रुतज्ञानमपि भगवदिति श्रुतज्ञानस्य स्वरूपमनेन विशेषणेनाभिधीयते इत्यर्थः, सूत्रार्थयोः परस्पर निर्योजन-सम्बंधनं नियुक्तिस्तां, कीर्तयिष्योमीति योजितमेव ॥८३॥ ननु किमशेषश्रुतज्ञानस्य ?, न, किं तर्हि ?, श्रुतविशेषाणामावश्यकादीनां अत आह
आवस्सगस्स दसकालिअस्स तह उत्तरज्झमायारे ।
सूयगडे निज्जुर्ति वुच्छामि तहा दसाणं च ॥४॥ आवश्यकस्य १ दशकालिकस्य २ उत्तराध्ययनाचारयोः३-४ समुदायशब्दानामवयवे वृत्तिदर्शनाद्' उत्तराध्य इन्युत्तगध्ययनं ज्ञेयं सूत्रकृते-सूत्रकृतांगविषय' ५ दशानां चेति-दशाश्रुतस्कन्धस्य सम्बन्धिनम् ६ ॥८४||
कप्पस्स य निज्जुर्ति ववहारस्सेव परमणिउणस्स ।
सूरिअपण्णत्तीए बुच्छं इसिभासिआणं च ॥८५॥ कल्पस्य च ७, व्यवहारस्य ८, च परमनिपुणस्य, अत्र परमग्रहण' मोक्षाङ्गत्वात् , निपुणग्रहण तु अव्यंसकत्वात् , न रूल्वयं व्यवहारो मन्वादिप्रणीतव्यवहार इव व्यंसकः, पञ्चपइन्ना खु ववहारा इति' वचनात् , सूर्य प्रज्ञप्तेः ९,
॥११८॥
Jain Education.intel
For Private & Personal Use Only
ainerbrary.org