________________
श्रीधीरसुन्दरसू० आव० अवचूर्णिः
॥११७॥
इक्कारसवि गणहरे पवायए पवयणस्स वदामि ।
सव्वं गणहरवंसं वायगवंसं पवयणं च ॥८॥ अपिः समुच्चये, अनुत्तरज्ञानदर्शनादिधर्मगणं धारयन्तीति गणधरास्तान , प्रकर्षेण प्रधाना आदी वो वाचकाः प्रवाचकास्तान् , कस्य ? प्रवचनस्य द्वादशाङ्गस्य, एव तावन्मलगणधरवन्दनमुकं, तथा सर्व गणधराआचार्यास्तेषां वंश:-परम्परया प्रवाहस्त, वाचका-आध्यायास्तेषां वंशस्तं, तथा प्रवचनं-आगमं च, ननु वंशद्वयस्य प्रवचनस्य च कथ बन्यता ?, उन्यते यथा अर्थव काऽईन् वन्द्यः, सूत्रवक्तारश्च गणधराः, एवं यैरिदमर्थसूत्ररूपं प्रवचनमाचार्योपाध्यायैगनोतं तदंशोऽप्यानयनद्वारेणोपकारित्वाद्वन्द्य एव, प्रवचनं तु साक्षादेवोपकारित्वाद्वन्धम् ।।८२।। इदानों प्रकृतमुपदर्शयति
ते वंदिऊण सिरसा अत्थपुहुत्तस्स तेहि कहियस्स ।
सुयनाणस्स भगवओ निज्जुत्तिं कित्तइस्सामि ॥८३॥ तान्-अनन्तरोक्तान् तीर्थकरादीन् वन्दित्वा शिरसा, उपलक्षणत्वान्मनःकायाभ्यां च, नियुक्ति कोतयिष्यामि, कस्य ! श्रुतज्ञानस्य, अर्थपृथक्त्वस्येति-अर्थात् कथञ्चिद्भिन्नत्वात् सूत्र' पृथक् उच्यते, प्राकृतत्वाच्च पृथगेव पृथक्त्वं,
| गाथा-८२-८
॥११७॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Interational