________________
श्रीधीरसुन्दरसू० आव०अवणिः
॥११६॥
गाथा-८०-८
प्यमितज्ञानानभ्युपगमप्रधानवादनिरासार्थ एतदुपन्यासः, स्वसिद्धान्तप्रसिद्धच्छमस्थवीतरागनिरासार्थ वा, तथा तरन्ति स्म भवार्णव तीर्णास्तान् , सुगतयः-सिद्धास्तेषां गतिर्मोक्षलक्षणा तां गतास्तान् , अनेन चाप्ताणिमाद्यष्टविधैश्वर्यस्वेच्छाविलसनशीलपुरुषतीर्णत्ववादपरमतनिरोसमाह, सिद्धिपथप्रदेशकान् , तद्धेतुभूतसामायिकप्रतिपादकत्वात् , एवमविशेषेण ऋषभादीनां मङ्गलार्थ वन्दनमुक्त' ।।८०॥ इदानीमासन्नोपकारित्वाद्वर्द्ध मानवन्दनमाह
वंदामि महाभागं, महामुणि महायसं महावीरं ।
अमरनररायमहिअं, तित्थयरमिमस्स तित्थस्स ॥८१॥ भागोऽचिन्त्यशक्तिः, महान भागो यस्येति महाभागो महाप्रभावस्त, मन्यते जगत्रिकालावस्थामिति मुनिः, सर्वज्ञत्वात् , महांश्चासौ मुनिश्च महामुनिः त, त्र्यैलोक्यव्यापित्वान्महद्यशोऽस्येति महायशास्त महावीरमित्यमिधानं, अथवा "विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥१॥" तथा अमरनराणां रोजनः-इन्द्रचक्रयादयस्तैमहितं, तीर्थकरणशीलं, अस्य वर्तमानकालावस्थायिनस्तीर्थस्य ॥ एवमर्थवक्तुमङ्गलार्थ वन्दनमुक्त ॥८॥ इदानी सूत्रक प्रभृतीनामपि पूज्यत्वाद्वन्दनमाह
॥११६॥
Jain Education Inte
For Private & Personal use only
nelibrary.org