________________
श्रीधीरसुन्दरसू० आव०अवचूणिः ॥११५॥
गाथा-८०
घातनियुक्त्यनुगमः, सूत्रस्पर्शिकनियुक्त्यनुगमः, तत्र निक्षेपनियुक्त्यनुगमो नाम यदधो नामादिन्यासान्व्याख्यानमुक्त ततः सोऽनुगत एव, इदानीमुपोद्घातनिर्युक्त्यनुगमप्रस्तावः, स च उद्देशादिद्वारलक्षणः, अस्य च महार्थत्वात् मा भृद्विधन इति प्रारम्भेऽस्य मङ्गलमुच्यते ॥८॥
तित्थयरे भगवंते, अणुत्तरपरक्कमे अमियनाणी ।
तिण्णे सुगइगइगए, सिद्धिपहपदेसए वंदे ॥८॥ तीर्थ द्विधा-द्रव्यतो भावतश्च, द्रव्यतीर्थ नद्यादीनामनपायः समभूभागः, भावतीर्थ संघः, तत्करणशीला:स्तान् , वन्द इति क्रिया सर्वत्र योज्या, “एश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मम्याथ प्रयत्नस्य, 1 पण्णां भग इतींगना ॥१॥" सोऽस्ति येषां ते भगवन्तः तान् , ननु तीर्थकरानित्यनेनैव भगवत इत्यस्य गतार्थत्वात् तीर्थकृतामुक्तलक्षणभगाव्यभिचारान्नार्थोऽनेनेति, न, अन्यमतकल्पिततीर्थकरतिरस्कारपरत्वादस्य, तथा च न तेऽविकलभगवन्तः, तथा परे-शत्रवः क्रोधादयस्तेषामाक्रमः-पराजय उच्छेदः सोऽनुत्तरो येषां तान् , नन्वैश्वर्यादिभगवन्तो ये तेऽनुत्तरपराक्रमा एव, अन्यथा भगयोगाभावात् , तत इदमतिरिच्यते, न अनादिसिद्वैश्वर्यादिसमन्वितपरमपुरुषप्रतिपादनपरमतनिरोसार्थत्वान्न दोषः, अकात्मवादव्यवच्छेदार्थ वा, अमितज्ञानिनः, ननु येऽनुत्तरपराक्रमास्तेऽमितज्ञानिन एव नियमेन, क्रोधादिक्षयोत्तरकालभावित्वादमितज्ञानस्य, उच्यते, क्लेशक्षयेऽ
गाथा-७८ ॥११५॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org