SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रोधीरसुन्दरसू० आव०अवचूर्णिः ॥११०॥ गाथा-८८ पोऽनुगमो नयश्च, तत्र शास्त्रमुपक्रम्यते-समीपमानीयते निक्षेपस्यानेनेत्युपक्रमः शास्त्रस्य न्यासदेशानयनमित्यर्थः, निक्षेपयोग्यतापादनमिति यावत् , उपक्रमान्तर्गतभेदैहि विचारित निक्षिप्यते, नान्यथा, निक्षेप निक्षेपो-नामादिभेदैः शास्त्रस्य व्यसनं, अनुगमनमनुगमः-सूत्रस्यानुकूल: परिच्छेदः, नयनं नयः, वस्तुनो वाच्यस्य पर्यायाणां संभवतोऽधिगम इत्यर्थः, आह षामुपक्रमादिद्वाराणां किमित्येव' क्रमः ?, उच्यते, नद्यनुपक्रान्तमसमीपीभूतं सन्निक्षिप्यते, न चानिक्षिप्त नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगत' नयैर्विचार्यते, अतोऽयमेव क्रमः । तत्रोपक्रमो विविधः-शास्त्रीय इतरश्च, तत्रेतरः पविधः-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् , नामस्थापने सुगमे, द्रव्योपक्रमो द्विधा, तत्रोगमत उपक्रमपदार्थज्ञस्तत्र चानुपयुक्तः, नोआगमतस्त्रिया, शशरीरभव्यशरीरे प्रतीते, तद्व्यतिरिक्तस्त्रिधा सचिताचित्तमिश्रभेदात् , तत्र सचितद्रव्योपक्रमस्त्रिधा-द्विपदचतुष्पदापदोपाधिभेदात् , पुनरेकैको द्विधा-परिकर्मणि वस्तुविनाशे च, तत्र परिकर्मनाम द्रव्यस्य गुणविशेषपरिणामकरणं, वस्त्वभावापादनं-वस्तुविनाशः, तत्र परिकर्मणि सति द्विपदोपक्रमो यथा-घृताधुपभोगेन पुरुषस्य वर्णादिकरणं, अथवा कर्णस्कन्धवर्द्ध नादि, अन्ये तु शास्त्रगंधर्वनृत्यादिकलासंपादनमपि द्रव्योपक्रम व्याचक्षते, इद पुनरसाधु, विज्ञान विशेषात्मकत्वात् शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वात् , किन्त्वात्मद्रव्यसंस्कारविवक्षापेक्षया शरीरस्य वर्गादिकरणवत् स्यादपीति, एवं शुकसारिकादीनामपि शिक्षागुणविशेषकरणं भावनीयं, एवं गजादीनां शिक्षाविशेषगुणकरण चतुष्पदोपक्रमः, अपदानां-वृक्षादीनां वृक्षायुर्वेदोपदेशाद्वार्द्ध क्यादिगुणापादनमपदोपक्रमः, वस्तुविनाशे च पुरुषादीनां खडगोदिभि ॥११०॥ Jain Education in For Privale & Personal Use Only Halrainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy