________________
श्रीधीरतुन्दरसू० श्राव गणिः ॥१०९॥
गाथा-७७
सहावयेन-पापेन वर्तन्त इति सावद्यास्ते च ते योगा-व्यापाराश्चेति तेषां वितिः-विरमगं, सामायिकार्थाधिकारः १, उत्कीर्त नेति गुणोत्कीर्तना अर्हतां चतुर्विशतिस्तवस्य २, गुणा:-ज्ञानादयो मृलोत्तराख्या वा तद्वतः प्रति पत्तिः वन्दनाध्ययनस्य ३, चः समुच्चये, स्खलितस्येति-श्रुतशीलस्वलितस्य निन्दना ४, प्रतिक्रमणस्य चरित्रात्मनो व्रणचिकित्सा-अपराधव्रणसंगेहणं कायोत्सर्गस्य ५, अपगतव्रणातिचारमु पचितकर्मविशरणार्थ- अनशनादिगुणसंधारणा प्रत्याख्यानस्य, ६, कोऽर्थः ? अनन्तरोक्तपञ्चविद्यावश्यकानुष्ठानेन अपगता ये व्रतानामतिचारास्तेभ्यो ये इतरे सामायिकादिकायोत्सर्गान्तपञ्चविधावश्यकादशुद्धास्तरुपचित' यत्कर्म तद्विशरणार्थमनशनादिगुणसंधारणा प्रत्याख्यानस्याधिकारः, इदमुक्त' भवति-इह केचिदतिचारा मन्दक्लेशजनिताः कायोत्सर्गावसानावश्यकानुष्ठानतोऽपि निवर्तन्ते, अपरे त्वधिकतरसंक्लेशनिवतितास्तपःशोध्या भवन्ति तैयदुपचितं कर्म तन्निर्जरणार्थमनशनागुिणप्रतिपत्तिरधिकारः पष्ठावश्यकम्य ६ तत्र प्रथममध्ययनं सामायिकं, समभावलक्षणत्वाच्चतुर्विशतिम्तवादीनां च तद्भेदत्वात् प्राथम्यमस्य, अस्य च महापुरम्येव चत्वार्यनुयोगद्वागगि, अनुयोगः-सूत्रस्य व्याख्यान तस्य द्वाराणीव द्वाराणि तत्प्रवेशमुखानि, यथाहि-अकृतद्वार नगरमनगरमेव स्यात् . कृतैकद्वारमरि हस्त्यवादिसंकुलत्वादुःखसंचार, कृतवतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम', एवं समायिकपुरमप्यविमोगरायद्वारशून्यमशक्यो धिगम' स्यात् , कृतै कानुयोगद्वारमपि कृच्छ्ण द्राधीयसा च कालेनाधिगम्यते, विहितसप्रभेदोपक्रमादिद्वारचतुष्टयं तु सुखाधिगमं अल्पीयसा च कालेनाधिगम्यते, ततः फलवाननुयोगदागेपन्यासः, तानि चामूनि-उपक्रमो निक्षे
गाथा-७८ ॥१०९॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org