________________
श्रीधीरसुन्दरसू० आव० अवचूर्णि
॥१०८॥
Jain Education Intersall
श्रुतमपि चतुर्द्वा नामादिभेदात् तत्र नामस्थापने प्रतीते, द्रव्यश्रुतं द्विधा - आगमतो नोआगमतश्च, आगमतो ज्ञाता अनुपयुक्तः, नोआगमतस्त्रिविधं, इशरीरभव्यशरीरे प्राग्वत्, सद्व्यतिरिक्त तु पुस्तकपत्रन्यस्त', भावश्रुत द्विधा - आगमतो नोआगमतश्च, आगमतो ज्ञातोपयुक्तः, नोआगमतो द्विधा-लौकिक लोकोत्तर च तत्राद्यं भरतरामायणादि, द्वितीयं द्वादशगं गणिपिटक आवश्यक च नोआगमतो भावश्रुत, नोशन्दोकदेशवचनः, तस्य चेमान्येकार्थिकानि श्रुतं १ सूत्र २ ग्रन्थः ३ सिद्धान्तः ४ प्रवचनं ५ ओज्ञा ६ वचनं ७ उपदेशः ८ प्रज्ञापना ९ आगमः १०, स्कन्धोऽपि चतुर्द्धा तत्राद्यभेदौ प्रतीतौ द्रव्यस्कन्धो द्विधा आगमादिभेदात्, तत्र आगमतः प्राग्वत्, नोआगमतोऽपि प्रश्वत्रिधा आद्यभेदौ, प्रतीतौ तद्व्यतिरिक्तस्त्रिविधः, सचित्तोऽचित्तो मिश्रश्व, सचित्तो द्विपदादिः अचित्तो द्वयणुकादिः मिश्रः सेनादेर्देशादिर्वा, भावस्कन्धो द्विधा - आगमतो ज्ञाता उपयुक्तः, नोआगमतस्त्विदमावश्यकं नोशब्दो देशवचनः सकलश्रुतस्कन्धापेक्षयाऽवश्यकश्रुतस्कन्धस्यैकदेशत्वात्, सामायिकादीनां श्रुतविशेषाणां स्कन्धः श्रुतस्कन्धः, आवश्यकं च तत् श्रुतस्कन्धश्च आवश्यकश्रुतस्कन्धः ।
ननु कस्मादिदमावश्यकं पडध्ययनात्मकं ?, उच्यते, पडर्थाधिकारभावात्, ते चामी सामायिकादीनां योग' ज्ञेयो:- "सावज्जजोगविरह १ उक्कित्तण २ गुणवओ अ पडिवत्ती ३ खलिअस्स ४ निंदणा वणति गच्छ ५ गुणधारणा ६ चे ||१|| [अनु० ६ वि० ९० २] ।
For Private & Personal Use Only
गाथा-5
॥ १०८ ॥
ainelibrary.org