________________
श्रीधीसुन्दरसू० आव०अचूर्णिः ॥१०७॥
लोकोत्तरं च, तत्र ये इमे राजेश्वरतलसरमाडंत्रिकादयः प्रातरुत्थाय शरीरचिन्तामुखदन्तप्रक्षालनराजकार्यादि कुर्वन्ति तल्लौकिक द्रव्यावश्यकं, ये पुनश्चरकप्रमुखाः परिवाजकाः प्रातरुत्याय स्कन्दादिदेवतागृहसंमार्जनोपलेपनधूपनादिकुर्वन्ति तत् कुप्रावचनिकं द्रव्यावश्यकं, यत्पुनरेते श्रमणगुणमुक्तयोगिनः षइजीवनिकायनिरनुकंपा हया इबोदामानो गजा इव निरंकुशाः पाण्डुरपटपावरगा जिनानामनाज्ञया स्वच्छन्दसो विहुत्योभयकालमावश्यक करणायोपतिष्ठन्ते तल्लोकोत्तरं द्रव्यावश्यकं, भावशून्यत्वेनाभिप्रेतफलाभावात् ।
भावावश्यकमपि द्विधा-आगमतो नोआगमतच, तत्रागमतो भावावश्यकं आवश्यकज्ञाता उपयुक्तः, तदुपयोगानन्यत्वात् , अथवा आवश्यकार्थोपयोगपरिणाम एव, नोआगमतस्त्रिधा-लौकिकादिभेदात् , तत्र यत् पूर्वाहणे भारतव्याख्यानं अपराहणे रामायणव्याख्यानमेतल्लौकिकं भावावश्यक, यत्पुनरेते चरकादिपाखण्डस्था निजनिजदेवतास्मरणजापप्रमुखमनुष्ठानं प्रकुर्वन्ति तत् कुप्रावचनिकं भावावश्यकं, यत् पुनः श्रमणादिश्चतुर्विधः संघ एकान्ते विशुद्धचित्त उभषकालं प्रतिक्रमणं कुरुते तल्लोकोत्तरं भावावश्यक, ज्ञानक्रियारूपोभयपरिणात्मकत्वात् , मिश्रवचनचात्र नोशब्दः, अनेनैव च लोकोत्तरेयोहाधिकारः, अस्य चामून्येकाथिकानि आवश्यक १ मवश्यकरणीयं २ ध्रवं ३ कायनिग्रहो ४ विशुद्धिः ५ अध्ययनपइवर्गः ६ न्यायः ७ आराधना ८ मार्ग ९ इति, आवश्यकशब्दव्युत्पत्तिप्रदर्शिका चेयं गाथा-"समणेण सावएण य अवस्सकायव्यं हवइ जम्हा। अन्तो अहो निसिस्स य तम्हा आवस्सयं नाम ॥१" [अनु० ३]
गाथा-७९
॥१०७॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org