________________
el
श्रीधीरसुन्दरसू० आव०अवचर्णिः
॥१०६॥
गाथा-७८
काष्ठकर्मादिषु अक्षवराटादिषु वा सद्भावस्थापनयाऽसद्धावस्थापनया वा यदावश्यकमिति स्थाप्यते तत् स्थापनावश्यक, द्रव्यावश्यकं द्विधा-आगमतो नोआगमतश्च, तत्रागमतो यस्यावश्यकमिति पद शिक्षितं स्थितं जितं मितं परिजितं नामसमं घोषसमं अहीनाक्षर अनत्यक्षर अव्याविद्धाक्षर अस्खलितं अमिलित, अव्यत्यानेडितं प्रतिपूर्णघोषं कण्ठोष्ठविप्रमुक्त वाचनोपगत भवति सपुरुषो द्रव्यावश्यक, तत्र शिक्षितं-पठनक्रियया अन्तं नीत', तदेवाविरमणतश्वेतसि स्थितत्वात् स्थित', परावर्तन कुर्वतः परेण वा क्वचित्पृष्टस्य यत् शीघ्रमागच्छति तजित, अक्षरसंख्यया पदसंख्यया वा परिच्छिन मित, परि-समन्तात् जित परिजित, परावर्तनं कुर्वतो यत्क्रमेणो क्रमेण वा समायातीति भावः, नामसमं-यथा कस्यचित् स्वनाम शिक्षितं स्थित जित मितं परिजित च स्यात् , तथैव तदपीति भावः यथा गुरुणाभिहिता घोपास्तथा यत्र शिष्येणापि समुच्चार्यन्ते तद् घोषसम, एकेनाप्यक्षरेणाहीनमहीनाक्षरं, एकेनाप्यक्षरेणावधिकमनत्यक्षर', तथा न व्याविद्धानि विपर्यस्तरत्नमालागतरत्नानीव विपर्यस्तान्यक्षराणि यत्र तदव्याविद्धाक्षरं, उपलशकलाद्याकुलभूभागे लागलभिव यन स्खलति तदस्खोलत', अनेकशास्त्रसंबंधीनि मूत्राण्येकत्र मीलयित्वा यत् पठयते तत् मोलित यन्न तथा तदमीलिा, अव्यत्यानेडित अस्थानविरतिरहित', आ एवं प्रनिपूर्ण' हीनाधिकाक्षराभावात् . प्रतिपूर्ण घोषं गुरुवत्सम्यगुदात्तादिघोषाणामुच्चारणात् , वाचनया-प्रश्नेन पग्वित नया उन्प्रेक्षया धर्मकथया उपगत प्राप्त' वाचनोषगत, शेषं सुगमम् ।
नो भागमतो द्रव्यावश्यक विधा, शरीद्रव्यावश्यक सुगमे, तद्व्यतिरिक्त विधा लौकिकं कुप्रावचनिकं
॥१.६॥
Jain Education Inte
For Private & Personal use only