________________
श्री धीरसुन्दरम् ० आव० अवचूर्णिः
॥१०५॥
Jain Education International
द्वाक्यस्येत्यदोषः ननु यद्यावश्यक स्यानुयोगस्तदावश्यकं किमङ्ग अङ्गानि श्रुतस्कन्धः श्रुतस्कन्धाः, अध्ययनमध्ययनानि उद्देशक उद्देशकाः ? उच्यते, आवश्यकं श्रुतस्कन्धः अध्ययनानि च न शेषविकल्पाः, ननु नन्दीव्याख्याने अङ्गानङ्गप्रविष्टश्रुत निरूपणायामनङ्गताभिहितैव ततश्च किमंगमंगानीत्याद्याशंकाया अनुपपत्तिरिति, उच्यते, न अवश्यं ararat inध्ययनार्थकथनं कर्तव्यमिति तद्व्याख्याऽनियम प्रदर्शनार्थत्वाददोषः, अकृते च आशङ्का संभवति, ननु मंगलार्थ शास्त्रादौ अवश्यमेव नद्यभिधानात् कथमनियम इति, उच्यते, ज्ञानाभिधानमात्रस्यैव मङ्गलत्वात्, Prasaranर्थाभिधानं कर्तव्यं तदकरणे चाशंका भवति किञ्च - आवश्यक व्याख्यानारम्भे शास्त्रान्तरख्या ख्यानारम्भोऽयुक्त एव शास्त्रान्तर' च नन्दी, पृथक् श्रुतस्कन्धत्वात् ननु यद्येवं तवश्यकश्रुतस्कन्धानुयोगारंभे किमिति तदनुयोग इति उच्यते, शिष्यानुग्रहार्थं नत्वयं नियम इति अपवादप्रदर्शनार्थ वा एतदुक्त' भवतिकदाचित् पुरुषाद्यपेक्षया उत्क्रमेणापि, अन्यारंभेऽपि चान्यद्वयाख्यायते इति, तत्र शास्त्राभिधानमावश्यक श्रुतस्कन्धः, तद्भेदाश्चाध्ययनानि, तस्मादावश्यक निक्षेप्तव्यं श्रुतस्कन्धथ, किञ्च किमिद' शाखाभिधानं प्रदीपाभिधानवद्यथार्थाभिधान आहोश्चित् पलाशाभिधानवद यथार्थाभिधान ? उत डित्थाद्य भिधानवदनर्थकमेवेति परीक्ष्य, यदि च यथार्थ तत उपादेयं तत्रैव समुदायार्थपरिसमाप्तेरिति, अतः शास्त्राभिधानमेवालोच्यते श्रमणादिभिरवश्यमुभयकालं कर्तव्यमित्यावश्यक, यद्वा ज्ञानादिगुणकद चकं मोक्षो वा आ-समन्ताद्वश्यः क्रियतेऽनेनेत्या तन्नामावश्यकं, तच्चतुर्विध- नामादिभेदात्, तत्र यस्य जीवस्याजोवस्योमयस्य वाऽऽवश्यकमितिनामक्रियते तन्नामावश्यकं, तथा
For Private & Personal Use Only
गाथा -
गाथा॥१०
www.jainelibrary.org