________________
श्री धीरसुन्दरम् ० अवचूर्णि
॥१०४॥
Jain Education Inter
प्राप्यन्ते, सिद्धाः अनन्ताः, क्षेत्रस्पर्शनाद्वारयोस्तु जघन्यतो लोकस्यासंख्येयभागे केवली लभ्यते, उत्कर्षतस्तु सर्वलोके, काद्वारे साद्यपर्यवसित' काल' सर्वोsपि केवली भवति, अन्तर तु केवलज्ञानस्य न विद्यते, प्रतिपाताभावात्, भागद्वार मतिवत् भावद्वारे क्षायिके भावे, अल्पबहुत्वद्वार मतिवत् । तच्च केवलज्ञान समासतचतुर्विध' प्रज्ञप्तं, द्रव्यादिभेदात् तत्र द्रव्यतः सर्वद्रव्याणि जानाति पश्यति च, क्षेत्रतः सर्वक्षेत्रं, कालतः सर्वकाल', भावतः सर्वान् भावान् ॥७८॥ उक्त' केवलज्ञानं तदभिधानाच्च नंदी, तदभिधानात्मंगलमिति ॥ तदेवं मङ्गलस्वरूपाभिधानद्वारेण ज्ञानपञ्चकमुक्त', इह श्रुतज्ञानेनाधिकारः तथा चाह
इत्थं पुण अहिगारो सुयनाणेणं जओ सुराणं तु ॥ साणमपणोऽवि अ अणुओगु पईवदिट्ठन्तो ॥७९॥
अत्र पुनः प्रकृतेऽधिकारः श्रुतज्ञानेन यतः श्रुतज्ञानेनैव शेषाणां - मत्यादिज्ञानानामात्मनोऽपि चानुयोगो - व्याख्यान, क्रियते इति वाक्यशेषः, स्वपरप्रकाशकत्वात्तस्य, तथा च प्रदीपदृष्टान्तः - यथा प्रदीपः स्वपरप्रकाशकत्वात् स एव हि गृहेऽधिक्रियते एवमिहापि श्रुतज्ञानमिति भावः । ॥ इति पीठिकावचूरिः समाप्ता ॥
सम्प्रति मङ्गलसाध्यः प्रकृतोऽनुयोग उपदर्श्यते स च परप्रकाशकत्वाद्गुवयतत्वाच्च श्रुतज्ञानस्य, नन्वावश्यकस्यानुयोगः प्रकृत एव पुनः श्रुतज्ञानस्येत्ययुक्तं ? उच्यते, आवश्यकमिदं श्रुतान्तर्गतमित्येतदर्थप्रकाशकत्वादेत
For Private & Personal Use Only.
गाथा - ७९
॥१०४॥
lainelibrary.org