________________
श्रीधीरसुन्दरम० आव०अवणिः
॥१०॥
वानन्तभागमात्रान् , तत्रापि तान् कतिपयानेव भाषते ग्राहकापेक्षया योग्योन् , तत्रापि यावन्मात्रे भणिते शेष स्वयमभ्युहितुमीष्टे तावन्मात्र', नत्वभ्यूह्यमपि, तत्र केवलज्ञानोपलब्धार्थाभिधायकः शन्दराशिः प्रोच्यमानस्तस्य भगवतो वाग्योग एव भवति, न श्रुतं, तस्य भाषापर्याप्त्यादिनामकर्मोदयनिबंधनत्वात् , श्रुतस्य च क्षायोपशमिकत्वात , स च वाग्योगो भवति श्रुत' शेषमित्यप्रधानं-द्रव्यश्रुतं, श्रोतृणां भावश्रुतकारणतया द्रव्यश्रुतमिति व्यवहि यत इति तात्पर्यार्थः, अन्यत्वेवं पठन्ति-'वइजोग सुअ हवइ तेसिं' तत्रायमर्थः तेषां श्रोतां श्रुतकारणत्वात् स वाग्योगः श्रुतं भवति, अथवा वाग्योगः श्रुतं-द्रव्यश्रुतमेवेति । तदेवमुक्त' केवलज्ञानस्वरूपं, अथास्य गत्यादिद्वारविषया सत्पदप्ररूपणाता द्रव्यप्रमाणादीनि च विभाव्यते, तत्र सत्पदप्ररूपणतायां गत्यादीनि विंशतिद्वाराणि अङ्गीकृत्य यथाक्रमं सिद्धिगती मनुष्यगतौ च केवलज्ञानं, अतीन्द्रियेषु, त्रसकायाकाययोः, सयोगायोगयोः, अवेदेषु, अपायेषु, सलेश्यालेश्ययोः, सम्यग्दृष्टिषु, केवलज्ञानिषु, केवलदर्शनिषु, संयतेषु, तथा नोसंयता नोअसं यताच नोसंयतासंयताः सिद्धास्तेषु च, एवमग्रेऽपि नोशब्दोऽभ्युयः साकारानाकारोपयोगयोः आहारकानाहारकयोः भाषकाभाषकयोः परीतेषु नोपरीत्तापरित्तेषु च पर्याप्तेषु नोपर्याप्तापर्याप्तेषु च बादरेषु नोसूक्ष्मवादरेषु च नोसंश्यसंज्ञिषु भव्येषु नोभव्याभव्येषु च चरमेषु, भवस्थकेवलिनां चरमत्वात् , अचरमेषु च सिद्धानां भवान्तरप्राप्त्यभावादचरमत्वात् , पूर्वप्रतिपनप्रतिपद्यमानकयोजना स्वधिया कर्तव्या, द्रव्यप्रमाणद्वारे प्रतिपद्यमानकानाश्रित्योत.र्षताऽष्टोत्तर शतं केवलिनां प्राप्यते, पूर्वप्रतिपन्नाश्च जघन्यत उत्कर्षतश्च कोटीपृथवत्वप्रमाणा भवस्थकेवलिनः
गाथा-७९
॥१०३॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org