________________
श्रीषीरसुन्दरसू. आव०अवचर्णिः
॥१०२॥
गाथा-७८
ततः सकलकालभाविप्रतिपयर्थमप्रतिपातिविशेषणोपादानं, एषः तात्पर्यार्थः अनवरतं सकलकालं च भवति, अथवा एकपदव्यभिचारेऽपि विशेषणविशेष्यभावप्रतीतिज्ञापनार्थ विशेषणद्वयोपादानं, तथाहि-शाश्वतमप्रतिपात्येव, अप्रतिपाति शाश्वतमशाश्वतं भवति, यथावधिज्ञानं एकविधमेकप्रकारंतदावरणक्षयस्यैकरूपत्वात् , केवलं च तद्ज्ञानं चेति योजितमेव, अथवा केवलं-मत्यादिनिरपेक्षं ज्ञान-संवेदनमित्यसमस्तं इह तीर्थकरः समुपजातकेवलालोकस्तीर्थकरनामकर्मोदयतस्तथा भवस्वाभाव्यादुपकार्यकृतोपकारानपेक्षसकलसत्त्वानुग्रहाय सवितेव प्रकाश-देशनामातनोति, तत्राव्युत्पन्न विनेयानां केषाञ्चिदेव शङ्कां भवेत्तीर्थकृतोऽपि ताबद्र्व्य श्रुतं ध्वनिरूपं विद्यते, द्रव्यश्रुतं च भावश्रुतपूर्वकं, ततो भगवानपि श्रुतज्ञानीति तदाशङ्कापनोदार्थमाह
केवलणाणेणत्त्थे गाउ' जे तत्थ पण्णवणजोगे ।
ते भासइ तित्थयरो वयजोग सुयं हवइ सेसं ॥७॥ इह तीर्थकरः केवलज्ञानेनार्थान्-धर्मास्तिकायादीन् मूर्त्तामर्त्तानभिलाप्यानभिलाप्यान् ज्ञात्वा-विनिश्चत्य, केवलज्ञानेनैव ज्ञात्वा नतु श्रुतज्ञानेन, तस्य क्षयोपशमिकभावातिक्रमात् सर्वक्षये देशक्षयाभावात् , ये तत्र, तेषामर्थानां मध्ये प्रज्ञापनायोग्याः अभिलाप्या इत्यर्थः, तान् भाषते नेतरान् तानपि प्रज्ञाप्नायोग्यान् भाषते, न सर्वान् , तेषामनन्तत्वाद्वा, चः क्रमवर्तित्वादायुषः परिमितत्वाच भाषितुमशक्यत्वात् , किन्तु कतिपयाने
॥१०२॥
Jain Education Inte
For Private & Personal use only
fellainelibrary.org