________________
श्री धीरसुन्दरसू० आव० अवचूर्णि :
॥१०१॥
Jain Education International
च मनोद्रव्याणां पर्यायानवगृह्य उपजायते पर्यायाश्च विशेषाः, विशेषग्राहकं च ज्ञानं, अतो मनःपर्यायज्ञानमेव भवति नतु मनःपर्यायदर्शनमिति, मनःपर्यायज्ञानी च साक्षात् मनोद्रव्यपर्यायानवपश्यति बाह्यांस्तु तद्विषयभावापन्नान् अनुमानतो जानाति, कुतः ? मनसो मूर्त्तमूर्त्तद्रव्यालंचनत्वात् छद्मस्थस्य चामूर्त्तदर्शनविरोधात् सत्पदप्ररूपणादयस्तु अवधिज्ञानवदवगन्तव्याः, नानात्वं चानाहारकापर्याप्तकौ न प्रतिपद्यमानको नापि पूर्वप्रतिपन्नाविति ॥ अथ केवलज्ञानं प्रतिपादयन्नाह
अह सव्वदव्वपरिणामभावविष्णत्तिकारणमणंतं । सासयम पडिवाइ एगविहं केवलनाणं ॥७७॥
अथ-प्रक्रियाप्रश्नानन्तर्य मङ्गलोपन्यास प्रतिवचनसमुच्चयेष्विति वचनात् इह अथशब्द उपन्यासार्थः, सर्वाणि च तानि द्रव्याणि च जीवादीनि तेषां परिणामाः- प्रयोगविस्रसोभयजन्या उत्पादादयः पयार्याः सर्वद्रव्यपरिणामास्तेषां भावसत्ता स्वलक्षगं स्वं स्वमसाधारणं रूपमित्यर्थः तस्य विशेषेण ज्ञपनं विज्ञप्तिः विज्ञानं वा विज्ञप्तिः, परिच्छेद इत्यर्थः, तस्याः कारणं हेतुः सर्वद्रव्यपरिणामभावविज्ञप्तिकारणं, ज्ञेयानन्तत्वादनन्तं शश्रद्भवं शाश्वतं सदोपयोगवदिति भावार्थः, न प्रतिपाति अप्रतिपाति, सदावस्थायीति, ननु यत् शाश्वतं तदप्रतिपात्येव ततः किमनेन विशेषणेन ?, उच्यते, शाश्वतं नामाऽनवरतं भवदुच्यते तच्च कियत्कालमपि भवति यावद्भवति तावन्निरन्तरभवनाच्छाश्वतं
For Private & Personal Use Only
गाथा- ७७
गाथा - ७८ ॥१०१॥
www.jainelibrary.org