________________
श्रीधीरसुन्दरसू० आव०अवचूर्णिः
॥११॥
विनाशः, तथाऽचित्तद्रव्योपक्रमः परिकर्मणि यथा पद्मरागमणेः क्षारमृत्पुटपाकादिना वैमल्यापादान, तद्विनाशे विनाशः, मिश्रद्रव्योपक्रमः परिकर्मणि कट कादिविभूषितपुरुषादिद्रव्यस्य शिक्षापादनं वस्तु विनाशे च खड्गादि भिविनाशः, कारकयोजना स्वथिया भावनीया, तद्यथा-द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैर्वा द्रव्ये द्रव्येषु वा उपक्रमो द्रव्योपक्रमः, तत्र द्रव्यस्योपक्रमो यथा एकस्य पुरुषस्य शिक्षाकरण, द्रव्यागां तेषां बहूनां, द्रव्येग फलकेन समुद्रतरणं, द्रव्यैर्बहुभिः फलकै व निषाद्य समुद्रोल्लंघन', द्रव्येऽपि एकस्मिन् फलके उपविष्टस्य शिक्षाकरग', द्रव्येषु बहुषुपविष्टस्य, तथा क्षेत्रोपक्रमोऽपि द्विधा-परिकर्मणि क्षेत्रविनाशे च, परिकर्मणि क्षेत्रोपक्रमो नावा समु. द्रस्योल्लघन हलादिभिर्वा इक्ष्वादिक्षेत्रस्य परिकर्मणा, वस्तुविनाशो क्षेत्रोपक्रमो गजबन्धनादिभिः क्षेत्रस्य विरूपीकरण ।
ननु क्षेत्रममतं नित्य च ततस्तस्य कथं करणविनाशौ', उच्यते, तास्थ्यात्तव्यपदेश इतिकृत्वा तद्वयवस्थितद्रव्यकरणविनाशमावादुपचारतोऽदोषः, तथा कालो नाम वर्तनादिरूपत्वाद् द्रव्यपर्यायः, ततो द्रव्यस्य परिकर्मणा विनाशो वा कालस्यापि तावुपचर्येते, इति कालोपक्रमः चन्द्रोपरागादिपरिज्ञानलक्षणा वा, भावोपक्रमो, द्विधा-आगमतो ज्ञातोपयुक्तः, नोआगमतो द्विधा-प्रशस्तोऽप्रशस्तश्च, अप्रशस्तभावोपक्रमे ब्राह्मणीगणिकामात्यादीनामुदाहरणानि, प्रशस्तः श्रुतादिनिमित्तमाचार्य:भावोपक्रमः, ननु व्याख्याङ्गप्रतिपादनाधिकारे गुरुभावोपक्रमाभिधान मनर्थक, न, तस्यापि व्याख्याङ्गत्वात् , उक्तञ्च "गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति सर्वेऽपि । तस्माद् गुर्वा
गाथा-७९
॥१११॥
Jain Education International
For Private&Personal Use Only
www.jainelibrary.org