SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीघोरसुन्दरसू० आव० अवचूर्णिः ॥९९॥ Jain Education International तदेवमुक्ता लब्धयः, एतावान्यासामपि क्षीराश्रयमध्वा श्रवस पिराश्रवापबुद्धिबीजबुद्धिपदानुसारित्वक्षीणमहानसत्वप्रभृतिलब्धीनामुवलक्षणं तेन ता अपि प्रतिपत्तव्याः, तत्र एंड्रेक्षुचारिणीनां गवां लक्षस्य क्षीरमर्द्वार्द्धक्रमेण दीयते, यावदेवमेकस्याः पीतगोक्षीरायाः क्षीरं तत्किल चातुरक्यमित्यागमे गीयते, तद्यथोपभुज्यमानमतीव मनः शरीर प्रल्हादहेतुरुपजायते, तथा यद्वचनमाकर्ण्यमानं मनःशरीरसुखोत्पादनाय प्रभवति ते क्षीराश्रवाः, क्षीरमिव वचनमासमन्तात् श्रवन्तीति श्रीगश्रवोः एवमग्रेऽपि मध्वपि किमप्यतिशायि शर्करादि मधुरद्रव्यं द्रष्टव्यं सर्पिः धृतं कोष्ठ इव धान्यं येषां बुद्धिराजार्यमुखाद्विनिर्गतौ तदवस्थावेव सूत्रार्थे धारयति न किमपि कालान्तरेsपि तयोर्गलति ते कोष्ठबुद्धयः एकमपि सूत्रपदमवधार्य शेषश्रुतमपि तदवस्थमेव येऽवगाहन्ते ते पदानुसारिबुद्धयः येषां पुनर्बुद्धिरेकमर्थपदं तथाविधमनुसृत्य शेषश्रुतमपि यथावस्थितं प्रभूतमर्थमवगाहते ते बीजबुद्धयः, येषां भिक्षाऽन्यैर्बहुभिरयुपभुज्यमाना न निष्ठां याति, किन्तु तैरेव जिमितैः तेऽक्षीणमहानसाः, आदिग्रहणात् गणधरत्व पुलाकत्वतेजः समुद्घाताहार कशरीरकरणादि लब्धयो ज्ञेयाः, अर्हन्चचलदेवत्ववासुदेवत्व चक्रित्वसं भिन्नश्रोतत्वजंधाचारणपूर्वधरत्वानीत्येताः सप्त लब्धयो भव्यस्त्रीणां नोपजायन्ते अभव्यपुरुषाणां ऋजुमतिविपुलमतित्वलब्धी अपि अभव्य स्त्रीणां मध्वास्रवक्षीरास्रवसर्पिरास्रवलब्धयोऽपि शेषास्तु भवन्तीति सामर्थ्यादवसीयते ॥ ९९ ॥ इदानीं मनः पर्यायज्ञानलब्धिनिरुपणायां तत्सामान्यत उपदिष्टमपि विषयस्वाम्यादिविशेषोपदर्शनाय ज्ञानपञ्चकक्रमायातमभिधित्सुराह For Private & Personal Use Only ॥९९॥ www.jainelibrary.org
SR No.600064
Book TitleAvashyaksutra Niryuktirev Curni Part_1
Original Sutra AuthorN/A
AuthorSundarsuri, Pramodsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1976
Total Pages244
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy