SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ वाहकेष्वेकस्मिन् वाहने शिबिकादौ तदा जीवेष्वजीवे च७ यदा बहुषु पुरुषेषु वाहकेषु बहुषु च वाहनाङ्गेषु तदा जीवेष्वजीवेषु च ८। आह-पूज्यस्य नमस्कार इति नैगमव्यवहारी, स एव च किमित्याधारो न भवति येन पृथगिष्यते ?, उच्यते, नाव श्यं यत् यस्य सम्बन्धि तस्य स एवाधारः, अन्यथापि दर्शनात् , यथा देवदत्तस्य धान्यं क्षेत्रे, ततोऽत्रापि पृथगाधार इत्यटिभङ्गी, तुशब्दात् शेषनयाक्षेपः, स विनेयजनानुग्रहाय सङ्केपतो दयते, तत्र सङ्ग्रहनयः सामान्यमात्रग्राहितया स्वपर-15 जीवेतरविशेषणरहित इति नमस्कारमाधारमात्रे अविशिष्टे इच्छति, आह च-“सामन्नमत्तगाही सपरजिएयरविसेसनिर18 वेक्खो । संगहनओऽभिमन्नइ आहारे तमविसिटुंमि ॥१॥” अपरस्तु जीवधर्मो नमस्कार इति जीवे एवाधारे, नाजीवे इति प्रतिपन्नः, यदिवाऽन्योऽन्यत्र वर्त्तते इति व्यधिकरणं सङ्ग्रहनयो मूलत एव नाभ्युपगच्छतीति तन्मते नाधिकरणचिन्ता, ऋजुसूत्रस्तु ज्ञानं शब्दः क्रिया वा नमस्कार इति प्रतिपन्नवान् , ज्ञानादयश्च जीवादनन्य इति जीव एव मन्यते नमस्कारं, नान्यत्र, ननु ऋजुसूत्रोऽन्यमप्याधारमिच्छत्येव 'आकाशे वसतीति वचनात् , सत्यमेतत् , केवलं द्रव्यविवक्षा-12 हैयां न गुणविवक्षायामित्यदोषः, शब्दादयस्तु ज्ञानरूपमेव नमस्कारमिष्टवन्तः, न शब्दक्रियारूपं, अतो ज्ञानरूपे जीवे 8 एवेच्छति, नान्यत्र, गतं कस्मिन्निति द्वारम् । अधुना कियचिरमसौ भवतीति निरूपयन्नाहउवओग पहुंचतोमुहुत्त लद्वीइ होइ उ जहन्नो। उक्कोस हिई छावट्टि सागर (द्वार) अरिहाइ पंचविहो (द्वारं६) ८९४| इह नमस्कारस्य कालचिन्ता द्विधा-उपयोगतो लब्धितश्च, तत्रोपयोगं प्रतीत्य स्थितिजघन्यत उत्कर्षतश्चान्तर्मुहूर्तमेव, 'लद्धीए' इत्यादि, लब्धेस्तु तदावरणक्षयरूपाया जघन्यतः स्थितिः अन्तर्मुहर्तमेव, उत्कर्षतः षट्षष्टिसागरोपमाणि, साति GARSASCHASSIS SIGLOSSAROSLAG SHOX an Educator For Private Personal Use Only Khainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy