________________
PARENESSORIESARIRISESAR
धर्मधम्मिणामभेदमात्रमेवेच्छति, न भेदं, ततः कस्यासौ नमस्कार इति स्वामित्वचिन्तैव तन्मतेन नोपपद्यते, केवलं नमसस्कारक्रियानिष्पादको जीवो, जीवाजीवानां च भेद इति, जीवो नमस्कार इति सर्वदैव तदभिप्रायेण तुल्याधिकरणता,
अशुद्धतरो वा कश्चित् सङ्ग्रहो नमस्कार सम्बन्धितयाऽभिमन्यमानो जीवस्येति प्रतिपद्यते, नाजीवस्य नापि जीवानामिदत्यादि, आह च-"जीवो नमोत्ति तुल्लाहिगरणयं बेइ नउ स जीवस्स । इच्छइ वाऽसुद्धयरो तं जीवस्सेव नऽन्नस्स ॥१॥"
ऋजुसूत्रमतं तु नमस्कारस्य ज्ञानक्रियाशब्दरूपत्वात् तेषां च कर्तुरनन्तरत्वात् कर्तृस्वामिक एव नमस्कारो, न पूज्यस्वा| मिकः, आह च-"उज्जुसुयमयं नाणं सद्दो किरिया व जं नमोकारो । होज नहि सवहा सो जुत्तो तकत्तुरन्नस्स ॥१॥" शब्दादिनयाः प्राहुः-ज्ञानमेव नमस्कारो, न शब्दक्रिये, व्यभिचारात्, तथाहि-शब्द क्रियाविरहेऽपि भवति नमस्कारोपयोगमात्रादिष्टफलसिद्धिः, न तदभावे शब्दक्रियासद्भावेऽपीति, ततस्तन्मतेनोपयुक्तस्य कर्तुरेव नमस्कारो, न बाह्यस्य, आह च-"जं नाणं चेव नमो सद्दाईणं न सद्दकिरियातो । तेण विसेसेण तयं बज्झस्स न तेऽणुमन्नंति ॥१॥" कस्येतिद्वारं गतम् , अधुना केनेति द्वारमुच्यते-केन साधनेन साध्यते नमस्कारः?, तत्रेयं गाथा| नाणावरणिजस्त य दंसणमोहस्स तह खओवसमे। जीवमजीवे अट्ठसु भंगेसु अहोइ सवत्थ ॥ ८९३ ॥
ज्ञानावरणीयस्येति सामान्योक्तावपि मतिज्ञानावरणीयस्य श्रुतज्ञानावरणीय चेति द्रष्टव्यं, नमस्कारस्य मतिश्रुतज्ञानान्तर्गतत्वात् , ज्ञानं च सम्यग्दर्शनमृते न भवति, तत आह-दर्शनमोहस्य' दर्शनमोहनीयस्य च यः क्षयोपशमस्तेन साध्यते नमस्कारः, तद्वशादवाप्यते नमस्कार इति भावः, तस्य च आवरणस्य द्विविधानि स्पर्द्धकानि भवन्ति-सर्वोपघातीनि
AMANAGGNESCORECASROCESCENCE
Jain Education
For Private & Personal Use Only
Kinelibrary.org