________________
श्री आवश्यकमलयगिरीय
वृत्तौ सूत्रानुगमः
॥ ४८४ ॥
Jain Education
अल्पाक्षरं नाम मिताक्षरं यथा सामायिकसूत्रं, असन्दिग्धं यत् सैन्धवशब्दवत् लवणपटघोटकाद्यनेकार्थसंशयकारि न भवति, सारवत्-बहुपर्यायं प्रतिमुखमनेकार्थाभिधायकं वा, विश्वतोमुखं- अनेकमुखं, प्रतिसूत्रमनुयोगचतुष्टयाभिधानात्, अस्तोभकं चवावैहहिकारादिपदच्छिद्रपूरणस्तोभकशून्यं, स्तोभका निपाता इति पूर्ववैयाकरणेषु प्रसिद्धेः, अनवद्यम् - अगमहिंसाप्रतिपादकं, न 'षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनात् न्यूनानि पशुभिस्त्रिभिः ॥ १ ॥ ' इत्यादिवचनमिव हिंसाभिधायकं, एवंभूतं सूत्रं सर्वज्ञभाषितमिति ॥ ततः सूत्रानुगमात् सपदच्छेदसूत्रोच्चारणरूपात् सूत्रेऽनुगते, किमुक्तं भवति ?, अनवद्यमिति निश्चिते सूत्रपदनिक्षेपलक्षणः सूत्रालापकन्यासः प्रवर्त्तते, तदनन्तरं सूत्रस्पर्शिकनिर्युक्तिः चरमानुयोगद्वारा विहिता नयाश्च भवन्ति, समकं चैतत्प्रतिसूत्रमनुगच्छति, तथा चाह भाष्यकृत् -सुत्तं सुत्ताणुगमो सुत्तालावगकतो य निक्खेवो । सुत्तप्फासियनिज्जुत्ति नया य समगं तु वच्चति ॥ १ ॥ (वि. २८०१) . सूत्रानुगमादीनां त्वयं विषयविभागः सपदच्छेदं सूत्रमभिधाय भवति सूत्रानुगमोऽवसितप्रयोजनः, सूत्रालापकन्यासोऽपि नामादिनिक्षेपमात्रमेवाभिधाय, सूत्रस्पर्शिकनिर्युक्तिस्तु पदार्थविग्रहविचारप्रत्यवस्थानाद्यभिधाय तच्च प्रत्यवस्थानादि प्रायो नैगमादिनयमतविषयमतो वस्तुतस्तदन्तर्भाविन एव नया इति, न चैतत् स्वमनीषिकाविजृम्भितम्, यत आह भाष्यकारः - होइ कयत्थो वोतुं सपयच्छेयं सुयं सुयाणुगमो । सुन्तालाबगनासो नामादिन्नासविणिओगं ॥१॥ (वि.१००९) सुत्तफासिय निज्जुत्तिनियोगो सेसओ पयत्थादी । पायं सोच्चिय नेगमनयाइमयगोयरो होइ ॥ २॥ (वि. १०१० ) आह- यद्येवं क्रमस्ततः किमित्युत्क्रमेण निक्षेपद्वारे सूत्रालापकन्यासोऽभिहितः ?, उच्यते, निक्षेपसामान्यात्, एवं हि
For Private & Personal Use Only
सूत्रगुणाः विषयविभागाः
॥ ४८४ ॥
ainelibrary.org