________________
Jain Education
प्रतिपत्तिलाघवं भवतीत्यलं प्रसङ्गेन ॥ तदेवं विनेयजनानुग्रहार्थं नयानुगमादीनां प्रसङ्गतो विषयविभागः प्रदर्शितः, अधुना प्रकृतं प्रस्तुमः, तत्र प्रकृतमिदं सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्च पञ्चनमस्कारपूर्वकं, तस्याशेषश्रुतस्कन्धान्तर्गतत्वात्, ततोऽसावेव सूत्रादौ व्याख्येयः, सूत्रादित्वात्, सर्वसम्मतसामायिकसूत्रादिवचनवत्, सूत्रादिता चास्य निर्युक्तिकृता सूत्रादौ व्याख्यायमानत्वा दवसेया, अन्ये तु व्याचक्षते - मङ्गलत्वादेवायं सूत्रादौ व्याख्यायते, तथाहि -त्रिविधं मङ्गलं - आदौ मध्येऽवसाने च तत्र आदिमङ्गलार्थं नन्दी व्याव्याता, मध्यमङ्गलार्थं तीर्थङ्करादिगुणाभिधायकः 'तित्थयरे भयवंते' इत्यादिगाथासमूहः, नमस्कारस्त्ववसानमङ्गलार्थ इति एतच्चायुक्तं, शास्त्रस्यापरिसमाप्तत्वेनावसानत्वायोगात् न चादिमङ्गलत्वमप्यस्योपपन्नं, तस्य कृतत्वात् करणे चानवस्थाप्रसङ्गात् यदिवा कृतं परबुद्धिमान्धप्रदर्शनेन, न खल्वेष सतां न्यायः, ततो गुरुवचनात् यथावधारितं तत्त्वार्थमेव ब्रूमः, सूत्रादिर्नमस्कारः, अतस्तमेव प्राग्व्याख्याय सूत्रं व्याख्यास्यामः, स चोत्पत्त्याद्यनुयोगद्वारानुसारतो व्याख्येय इति नमस्कारनिर्युक्तिप्रस्तावनीमिमामाह गाथां नियुक्तिकार:
उपपत्ती १ निक्खेवो २ पयं ३ पयत्थो ४ परूवणा ५ वत्थू ६ ।
अक्खेव ७ पसिद्धि ८ कमो ९ पओअण १० फलं ११ नमुक्कारो ॥ ८८७ ॥
उत्पदनमुत्पादः प्रसूतिरुत्पाद इत्यर्थः सोऽस्य नमस्कारस्य नयानुसारतश्चिन्तनीयः, तथा निक्षेपणं निक्षेपो-न्यासः, स चास्य कार्यः, पद्यतेऽनेनेति पदं, तच्च पञ्चधा-नामिकं नैपातिकं औपसर्गिकमाख्यातिकं मिश्रं च तत्र अश्व इत्यादि नामिकं, च वा ह अह इत्यादि नैपातिकं, प्र परा इत्यादि औपसर्गिकं पठति भुङ्क्ते इत्याद्याख्यातिकं, संयत इत्यादि मिश्र, तदस्य
For Private & Personal Use Only
jainelibrary.org