________________
ROCESSMASSACROSAGAR
यत्र समासविधी सत्यसमासवचनं, यथा राजपुरुषोऽयमित्यत्र तत्पुरुष समासे कत्तव्ये विशेषणसमासकरणं वहब्रीहिकरणं। वा, यदिवा असमासकरणं राज्ञः पुरुषोऽयमिति २७ उपमादोषो हीनाधिकोपमाभिधानं, यथा मेरुः सर्षपोपमः, सर्षपो। मेरुसमः, बिन्दुः समुद्रोपमः समुद्रो बिन्दूपम इत्यादि २८, रूपकदोषो नाम स्वरूपावयवव्यत्ययो, यथा पर्वते पर्वतरूपावयवानामनभिधानं समुद्रावयवानां चाभिधानमित्यादि २९, निर्देशदोषो यत्र उद्दिश्यपदानामेकवाक्यभावो न क्रियते,
यथा देवदत्तः स्थाल्यामोदनं पचतीति वक्तव्ये पचतिशब्दानभिधानं ३०, पदार्थदोषो यत्र वस्तुपर्यायवाचिनः पदार्थस्यादार्थान्तरपरिकल्पनाश्रयणं यथा द्रव्यपर्यायवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलूकस्य ३१, सन्धिदोषो-विश्लिष्ट-15 है संहितत्वं सन्ध्यभावो वा ३२, एते द्वात्रिंशत् सूत्रदोषा भवन्ति ज्ञातव्याः, एभिर्वियुक्तं द्वात्रिंशद्दोपरहितं लक्षणयुक्तं सूत्रं
तत् इति वाक्यशेषः, द्वात्रिंशद्दोषरहितं यच्चेति वचनाद्धि तच्छब्दनिर्देशो गम्यत एव, तथाऽष्टभिर्गुणै रुपेतं यत् तल्लक्षप्रणयुक्तमिति वर्त्तते ॥ ते चाष्टौ गुणा इमे
_ निहोसं सारवंतं च, हेउजुत्तमलंकियं । उवणीयं सोवयारं व, मियं महुरमेव य ॥ ८८५ ॥ का निर्दोष नाम प्रागुक्तसमस्तदोषरहितं, सारवत्-बहुपर्यायं, सामायिकशब्दवत् , अन्ययव्यतिरेकलक्षणा हेतवस्तैर्युक्त द्र हेतुयुक्तं, अलङ्कृतम्-उपमादिभिरुपेतं, उपनीतम्-उपनयोपसंहृतं, सोपचारम्-अग्र्याम्याभिधानं, मित-नियतवर्णादिपरिMIमाणं, मधुरं-श्रवणमनोहरं ॥ अथवेदं सर्वज्ञभाषितसूत्रलक्षणं
अप्पक्खरमसंदिद्धं सारवं विस्सतोमुहं । अत्थोभमणवजं च, सुत्तं सबन्नुभासियं ॥ ८८६ ॥
Jain Educati
onal
For Private 3 Personal Use Only
Minaw.jainelibrary.org