________________
Jain Educatio
तालीकं द्विधा - अभूतोद्भावनं भूतनिह्रवश्च तत्र अभूतोद्भावनं यथा प्रधानं जगतः कारणमित्यादि, भूतनिह्नवो यथा नास्त्यात्मेत्यादि १ उपघातजनकं सत्त्वोपघातजनकं, यथा वेदविहिता हिंसा धर्म्माय इत्यादि २ वर्णक्रमनिर्देशवत् निरर्थकम्, आरादेशादिवत् डित्थादिवद्वा ३, पौर्वापर्यायोगाद् असम्बद्धार्थमपार्थकं यथा दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः त्वर की टिके दिशमुदीचीं स्पर्शनकस्य पिता प्रतिशीन इत्यादि ४ अर्थविकल्पोपपत्त्या वचनविघातः छलं, वाक्छलादि, यथा नवकम्बलो देवदत्त इत्यादि ५, द्रोहस्वभावं दुहिलं, यथा - 'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, नासौ पापेन युज्यते ॥ १॥' ६ कलुषं वा दुहिलं, येन समता पुण्यपापयोरापद्यते, यथा - "एता - वानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्ति बहुश्रुताः ॥ १ ॥” इति निस्सारं - परिफल्गु, यथा वेदवचनं ७, अधिकं - वर्णादिभिरभ्यधिकं ८, तैरेव हीनमूनं ९, अथवा हेतूदाहरणाधिकमधिकं यथा - अनित्यः शब्दः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्यादि ८, ताभ्यामेव हीनमूनं, यथा अनित्यः शब्दो घटवत् अनित्यः शब्दः कृतकत्वादिति ९, शब्दार्थयोः पुनर्वचनं पौनरुक्त्यमन्यत्रानुवादात्, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं च तत्र शब्दपुनरुक्तमिन्द्र इन्द्र इति, अर्थपुनरुक्तमिन्द्रः शक्र इति, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं यथा - देवदत्तो दिवा न भुङ्क्ते बलवान् पविन्द्रियश्च अर्थादापन्नं रात्रौ भुङ्क्ते इति, तत्र यो ब्रूयात्-दिवा न भुङ्क्ते रात्रौ भुङ्क्ते स पुनरुक्तमाह १०, व्याहतं नाम यत्र पूर्वेण परं व्याहन्यते, यथा 'कर्म्म चास्ति फलं चास्ति, कर्त्ता नास्ति च कर्म्मणा' मित्यादि ११ अयुक्तम्अनुपपत्तिक्षमं, यथा- 'तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्त्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥१॥' इत्यादि १२,
tional
For Private & Personal Use Only
w.jainelibrary.org