SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Jain Educat त्यज्य, स च नापि रक्तेषु-अनुरक्तेषु रज्यते - प्रीतिं करोति, नापि द्विष्टेषु दोषमापद्यते, वर्त्तमानकालनिर्देशस्तत्कालापेक्षया, युक्तं चैतत् यतो मुनय एवंविधा एव भवन्ति ॥ तथा चाह वंदिजमाणा न समुक्कसंति, हीलिज्जमाणा न समुज्जलंति । दंतेण चित्तेण चरति धीरा, मुणी समुग्धाइअरागदोसा || ८६६ ॥ वन्द्यमाना मुनयो न समुत्कर्षन्ति न समुत्कर्षं यान्ति, नापि हील्यमानाः - निन्द्यमानाः समुज्ज्वलन्ति - कोपानिं प्रकटयन्ति, किन्तु दान्तेन-उपशान्तेन चित्तेन धीरा मुनयः समुद्घातितरागद्वेपाश्चरन्ति ॥ तो समणो जइ सुमणो भावेण य जइ न होइ पावमणो । सयणे य जणे असमो समो अ माणाव माणेसु ॥८६७॥ इह समण इति न केवलं श्रमण उच्यते, किन्तु प्राकृतशैल्या समनाः, अपिच समनाः 'तो'ति ततः - तदा भण्यतेयदि शोभनं - धर्म्मध्यानादिप्रवृत्तं मनो यस्यासौ सुमना भवति, तथा भावेन - आत्मपरिणामलक्षणेन न भवति पापमनाः, निदानप्रवृत्तपापमना न भवतीति भावना, तथा खजने च भ्रात्रादिके जने वा अन्यस्मिन् समः - तुल्यः, समश्च माना|पमानयोः ॥ तदा हि यथावस्थितमनोयुक्ततया समना इति वक्तुं शक्यते ॥ नत्थि अ से कोइ बेसो पिओ अ सवेसु चैव जीवेसु । एएण होइ समणो एसो अन्नोऽवि पजाओ ॥ ८६८ ॥ नास्ति 'से' तस्य साधोर्यदि कश्चनापि द्वेष्यः प्रियश्च सङ्घट्टनपरितापनोपद्रवणादिक्रियातो निवृत्ततया, सर्वेष्वेव जीवेषु tional For Private & Personal Use Only jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy