________________
SAMSHERMANCSGARH
है। तत्र चतर्विधस्यापि सामायिकस्य क्रियाकारकभेदपर्यायैः शब्दार्थकथनरूपं निर्वचनं निरुक्तिः, तत्र सम्यक्त्वसामायिक-18 निरुक्तिमभिधित्सुराह
सम्मट्टिी अमोहो सोही सम्भावदंसणं बोही । अविवजओ मुदिद्वित्ति एवमाई निरुत्ताई ॥ ८६१॥ सम्यगिति प्रशंसायां, सम्यक्-प्रशस्ता मोक्षाविरोधित्वात् दृष्टिः-दर्शनम्, अर्थानां जीवादीनामिति गम्यते, सम्यग्- दृष्टिः १ तथा मोहनं मोहो-वितथग्रहः न मोहोऽमोहः अवितथग्रहः २ शोधनं शुद्धिः मिथ्यात्वमलापगमात, तत्त्वार्थश्रद्धानरूपं सम्यग्दर्शनं ३ तथा सत्-जिनाभिहितं प्रवचनं तस्य भावो-यथावस्थितं स्वरूपं सद्भावस्तस्य दर्शनम्-उपल-12 म्भः सद्भावदर्शनं ४ वोधनं बोधिः-परमार्थावगमः ५ अतथा अतस्मिन् तदध्यवसायो विपर्ययः, न विपर्ययः अविपर्ययः, तत्त्वाध्यवसाय इति भावः६ तथा सुशब्दः प्रशंसायां, शोभना दृष्टिः सुदृष्टिः, एवमादीनि सम्यग्दर्शनस्य निरुक्तानि-क्रियाकारकभेदैः पर्यायाः ॥ सम्प्रति श्रुतसामायिकनिरुक्तिप्रदर्शनार्थमाह| अक्खर सन्नी सम्मं साइयं खलु सपजवसि च । गमियं अंगपविठं सत्तवि एए सपडिवक्खा ॥ ८६२॥ इयं च पीठिकायामेव व्याख्यातेति भूयो न व्याख्यायते ॥ देशविरतिसामायिकनिरुक्तिप्रतिपादनायाह
विरयाविरई संवुडमसंवुडे बालपंडिए चेव । देसिक्कदेसविरई अणुधम्मोऽगारधम्मो अ॥ ८६३ ॥ विरमणं विरतं, भावे क्तप्रत्ययः, न विरतिः अविरतिः, विरतेन युक्ता अविरतिर्विरताविरतिः, तथा संवृताः-स्थगिताः, परित्यक्ता इत्यर्थः, असंवृता-अपरित्यक्ताः, संवृताश्च असंवृताश्च संवृतासंवृताः सावद्ययोगा यस्मिन् सामायिके तत् संव
CROSAROSSSS
Jain Educati
o
nal
For Private Personal use only
O
w
.jainelibrary.org