SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यकमलय० वृत्तौ उपोद्घाते ॥४७३॥ . सप्त चतुर्दशभागान् स्पृशति, 'सत्त ये' त्यत्र चशब्दस्यानुक्तसमुच्चयार्थत्वादधः पञ्च चतुर्दशभागान् श्रुतज्ञानी स्पृशतीति क्षेत्रस्पर्शप्रतिपत्तव्यं, तथाहि-सम्यग्दृष्टिः श्रुतज्ञानी पूर्व नरकेषु बद्धायुष्कः षष्ठपृथिव्यां तमःप्रभायामिलिकागत्या समुत्पद्यमानःना भागपञ्च चतुर्दशभागान् लोकस्य स्पृशतीति, देशविरतस्त्वच्युतदेवलोके समुत्पद्यमानः पञ्च लोकस्य चतुर्दशभागान् स्पृशतीति स्पर्शना च प्रतिपत्तव्यम् , अधस्तु देशविरतो 'घण्टलाला' न्यायेनापि परिणाममपरित्यजन्नोत्पद्यते, ततोऽधोभागेषु न चिन्तितः, आह च चूर्णिकृत्-"देसविरतो हेद्वान उववजइ तेण पंच, उवरि अञ्चयं जावत्ति भणिय” मिति ॥ तदेवं क्षेत्रमधिकृत्य स्पर्शना प्रोक्ता, अथ भागस्पर्शना वक्तव्या, किं सामायिकं श्रुतादि कियद्भिजींवैः स्पष्टं, प्राप्तपूर्वमिति भावः, इत्येतदुपदर्शयन्नाह___ सबजीवहिं सुअं सम्मचरित्ताई सबसिद्धेहिं । भागेहिं असंखिल्जेहिं फासिया देसविरईओ ॥ ८६०॥ ___ सर्वजीवैः सांव्यवहारिकराश्यन्तर्गतैः श्रुतं-सामान्येनाक्षरात्मकं श्रुतं स्पृष्टं, द्वीन्द्रियादिभावस्य तैः सर्वैरप्यनन्तशः स्पृष्टत्वात् , तत्र च सामान्यश्रुतसद्भावात् , सम्यक्त्वचारित्रे सर्वसिद्धैः स्पृष्टे, तदनुभवमन्तरेण सिद्धत्वायोगात्, भागैर-1 8 सङ्ख्येयैः स्पृष्टा देशविरतिः, इयमत्र भावना-सर्वसिद्धानामस-ख्येया भागा बुद्ध्या क्रियते, तत्रैकमसङ्ख्येयं भागं मुक्त्वा शेषैः सर्वैरप्यस-ख्येयैर्भागैर्देशविरतिः स्पृष्टा, एकेन त्वसङ्ख्येयेन भागेन न स्पृष्टा, यथा मरुदेव्या भगवत्या, उक्तं च ॥४७३॥ चूर्णी-असंखेजेहिं भागेहिं देसविरतिं काउं पच्छा चारित्तं पडिवजित्ता सिद्धी पत्ता, जे पुण सुद्धाई चेव सम्मत्तचरित्ताई फासेऊण मोक्खं गया ते देसविरतिसिद्धाणमसंखेजइभागो” इति ॥ गतं स्पर्शनाद्वारम् , इदानीं निरुक्तिद्वारम्,5 Join Education a l For Private & Personal Use Only ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy