SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ निरवशेष-प्रतिप्रदेशव्याप्त्या, समस्तमप्यसरख्यातप्रदेशात्मकं, एते च केवलिसमुद्घातावस्थायां केवलिनः प्रत्येतव्याः, है जघन्यतस्त्वसङ्ख्येयभागं स्पृशन्तीति स्वयमेव द्रष्टव्यम्, एकजीवस्य लोकासख्येयभागेऽवस्थानात् , तथा 'सत्त य चोदसे' त्यादि श्रुतसामायिकसहिताः सप्त चतुर्दशभागान् स्पृशन्ति, देशविरत्या सहिताः पञ्च चतुर्दशभागान् , इयमत्र भावना-इह लोकश्चतुर्दशभागः क्रियते, तद्यथा-सप्त भागा अधः सप्त भागा उपरि, तत्र रत्नप्रभाया उपरितलादारभ्य यावत् ४ तस्या अधोऽवकाशान्तरमेतावत्प्रमाणः प्रथमो भागः, ततः शर्कराप्रभाया उपरितलादारभ्य यावदधस्तस्या अवकाशान्तमारमेतावान् द्वितीयो भागः, एवं शेषास्वपि पृथिवीषु भावनीयम् , एषोऽधः सप्तभागानां विधिः, उपरितनसप्तभागानामयं विधिः-रलप्रभाया उपरितलादारभ्य यावत् सौधर्मः कल्पः एष प्रथमो भागः, सौधर्मकल्पस्योपरितलात् परतो यावन्महेन्द्रकल्प एष द्वितीयः, माहेन्द्रकल्पविमानानामुपरि यावत् ब्रह्मलोकलान्तकपर्यन्तस्तावान् तृतीयः, ततः परो महाशुक्र सहस्रारपर्यन्तश्चतुर्थः, ततः परं यावदच्युतकल्पः एष पञ्चमः, ततः परो त्रैवेयकपर्यन्तः पाठः, ततो लोकान्तः सप्तमः, उक्तं हीच चूर्णी-"लोगो चउद्दसभागे कीरइ, हेट्ठा उवरिपि सत्त सत्त चेव, कहं ?, रयणप्पभातो आरम्भ जाव से उवासंतरं एयं आसवं पढमो भागो, एवं सेसासुवि पुढवीसु, एते अहे सत्त भागा, उवरिं इमो भागविही-रयणप्पभाए उवरिमतलातो आरद्धं ४ जाव सोहम्मो कप्पो एस पढमो भागो, सोहम्मगाणं विमाणाणं उवरिं आरद्धं जाव सणंकुमारमाहिंदा एस बिइतो, एवं ततिओ ताजाव वंभलोगलंतगा, चउत्थो जाव महासुक्कसहस्सारा, पंचमो आणयाई चउरो कप्पा, छट्ठा गेवेज्जा, सेसा जाव लोगंतो सत्तमो"त्ति, तत्र सम्यक्त्वचरणसहितः प्रकृष्टतपस्वी श्रुतज्ञानोपेतो यदाऽनुत्तरसुरेष्विलिकागत्या समुत्पद्यते तदा लोकस्य ROLOGICALOCALCOHOROSCORE तावान् लोकान्तः स एवं Jain Education For Private & Personal Use Only ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy