SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यकमलय. वृत्ती उपोद्घाते ॥४७१॥ अर्द्धः-अपार्द्धः पुद्गलपरावती देशोनः उत्कृष्टमन्तरं सम्यक्त्वादिसामायिकानां त्रयाणां भवति, केषामित्याह-आशात- दिसम्यक्त्वानाबहुलानां, उक्तं च-"तित्थयर पवयण सुयं आयरियं गणहरं महिद्धीयं । आसायंतो बहुसो अणंतसंसारिओ होइ ॥१॥" दिषु अविपुद्गलपरावर्त्तस्वरूपंपंचसङ्ग्रहटीकातो वेदितव्यं, तत्र सविस्तरमभिधानात् ॥ गतमन्तरद्वारम्, अभिधातव्यं कियन्तं कालम- रहविरही विरहेण एको व्यादयो वा सामायिकं प्रतिपद्यन्ते इति ?, तत्राहसम्मसुअमगारीणं आवलिअअसंखभागमित्ताओ। अट्ट समया चरित्ते सवेसिं जहन्न दो समया ॥८५४॥ सम्यक्त्वश्रुतागारिणां-सम्यक्त्वश्रुतदेशविरतिसामायिकानां नैरन्तर्येण एकैकस्मिन् यादिषु वा प्रतिपद्यमानेषु आवलिकाया असङ्ख्येयभागमात्राः समयाः प्रतिपत्तिकालः, किमुक्तं भवति ?-सर्वस्मिन्नपि लोके सम्यक्त्वसामायिकश्रुतसामायिकदेशविरतिसामायिकानामुत्कर्षत आवलिकाया असङ्ख्येयभागवर्तिनः समयान् यावदविरहितमेकैको ढ्यादयो वा प्रतिपत्तारः प्राप्यन्ते, ततः परं त्रयाणामपि प्रतिपत्तेरुपरमादवश्यं विरहकालो भवति, तथा चारित्रे निरन्तरं प्रतिपत्तिकालोऽष्टौ समयाः, ततः परमवश्यं विरहः, जघन्यतस्तु सर्वेष्वपि सामायिकेष्वविरहेण प्रतिपत्तिकालो द्वौ समयौ ।। इह विरहकालो द्वारगाथायामनुद्दिष्टोऽपि अविरहकालस्य प्रतिपक्षभूतत्वात् सूचितो द्रष्टव्यः, ततः सम्प्रति सम्यक्त्वादिप्रतिपत्तिविरहकालमानमाह ॥४७१॥ सुअसम्म सत्तगं खलु विरयाविरईइ होइ बारसगं । विरईइ पन्नरसगं विरहिअकालो अहोरत्तो ॥ ८५५ ॥ सम्यक्त्वश्रुतयोः सर्वस्मिन्नपि लोके प्रतिपत्तिविरहकाल उत्कर्षतः 'सत्तग'मिति अहोरात्राणां सप्तकमेव, खलुशब्दोऽव SCN24 JainEducation For Private Personal use only Mainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy