SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ** * *** SACRORESAMACHEMICCOMMERCCORDS धारणार्थः, ततः परमवश्यं क्वचित्प्रतिपद्यते, जघन्यतस्त्वेकः समयः, विरताविरतेः-देशविरतेरुत्कृष्टः प्रतिपत्तिविरहकालो द्वादशकम्-अहोरात्राणि द्वादश, जघन्यतस्तु त्रयः समयाः, उक्तं च चूर्णी-"विरताविरतीए जहन्नेणं तइओ समओ, 8|उक्कोसेणं वारस अहोरत्ता" इति, 'विरते.' सर्वविरतेरुत्कर्षतः प्रतिपत्तिविरहकालः पञ्चदशकमहोरात्राणां, जघन्यतस्तु समयत्रयं ॥ द्वारम् । साम्प्रतं भवद्वारं वक्तव्यम् , तत्र कियतो भवानेको जीवः किं सामायिकं लभते इति प्रतिपादयन्नाहसम्मत्तदेसविरया पलिअस्स असंखभागमित्ताओ । अट्ट भवा उ चरित्ते अणंतकालं च सुअसमए ॥ ८५६ ॥ सम्यक्त्ववन्तो देशविरतिमन्तश्च स्वं स्वं सामायिकं पल्योपमासङ्ख्येयभागमात्रान् भवान् यावत् लभन्ते, इयमत्र है भावना-सम्यक्त्वसामायिक देशविरतिसामायिकं च प्रत्येकं जघन्यत एकं भवम् उत्कर्षतः क्षेत्रपल्योपमस्यासङ्ख्येयतमे भागे यावन्तो नभःप्रदेशास्तावतो भवान् यावदेको जीवः प्रतिपद्यते, नवरं सम्यक्त्वभवासङ्ख्येयकादेशविरतिभवास ख्येयकं लघुतरं द्रष्टव्यमिति, चारित्रे विचार्ये उत्कर्षतो भवा-आदानभवा अष्टौ, ततो नियमतः सिद्ध्यति, जघन्यतस्त्वेको भवः, 'अणंतकालं च सुयसमए' इति अनन्तकालम्-अनन्तभवरूपं यावत् श्रुतसमये-सामान्यश्रुतसामायिके प्रतिपन्ना भवंति उत्कर्षतो, जघन्यतस्त्वेकं भवं, यथा मरुदेवीति । गतं भवद्वारम् , अधुना आकर्षद्वारमाह तिण्ह सहस्सपुहुत्तं सयप्पुहुत्तं च होइ विरईए । एगभवे आगरिसा एवइआ हुंति नायवा ॥ ८५७ ॥ आकर्षणमाकर्षः, प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः, ते च द्विधा-एकभविका नानाभविकाच, तत्र प्रथमत एकभविका उच्यन्ते-'त्रयाणां सम्यक्त्वश्रुतदेशविरतिसामायिकानामेकभवे सहस्रपृथक्त्वमाकर्षाणामुत्कर्षतो भवति, विरते: * *** Jain Educatio n al For Private & Personel Use Only jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy