SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ACCOREGALOREGAOGALLERLOCALCALCbk धिकवर्षाष्टकोना पूर्वकोटीतियावत, जघन्यतस्त्वाद्यसामायिकत्रयस्य स्थितिरन्तमुहूर्त, सर्वविरतिसामायिकस्य एकः समयः, चारित्रपरिणामारम्भसमयानन्तरमेव कस्याप्यायुष्कक्षयसम्भवात् , देशविरतिप्रतिपत्तिपरिणामस्त्वान्तमौहर्तिक एव, द्विविधत्रिविधादिभङ्गबहुलप्राणातिपातादिनिवृत्तिरूपत्वात् , (सर्वविरतिश्रवणपूर्वकं आसक्त्यशक्तिमानेन ग्रहणपरिणामात् ग्रहणाच तस्याः) सर्वजीवापेक्षया तु सर्वाणि सर्वदा ॥ द्वारम् ॥ सम्प्रति कतीति द्वारं, कति-कियन्तो नाम वर्तमानसमये सम्यक्त्वादिसामायिकानां प्रतिपत्तारः प्राक् प्रतिपन्नाः प्रतिपतिता वा ?, तत्र प्रतिपद्यमानकेभ्यः प्राक्प्रतिपन्नाः प्रतिपतिताश्च सम्भवन्तीति तानेव प्रतिपादयन्नाहसम्मत्तदेसविरआ पलिअस्स असंखभागमित्ताओ। सेढीअसंखभागो सुए सहस्सग्गसो विरई ॥ ८५०॥ सम्यक्त्वदेशविरताःप्राणिनः सम्यक्त्वं देशविरतिंच प्रतिपद्यमानाः प्राणिनः पल्यस्य-क्षेत्रपल्योपमस्य असंख्यभाग-1 मात्राः, इयं भावना-क्षेत्रपल्योपमस्य असङ्ख्येये भागे यावन्तः प्रदेशास्तावन्त एकस्मिन् विवक्षिते समये उत्कर्षतः सम्यहै क्त्वसामायिकं देशविरतिसामायिकं च प्रतिपद्यमानाः प्रत्येकं लभ्यन्ते, किन्तु देशविरतिसामायिकप्रतिपत्तभ्यः सम्यक्त्व प्रतिपत्तारोऽसङ्ख्येयगुणाः प्रतिपत्तव्याः, जघन्यतस्तूभयेऽपि एको द्वौ वेति, 'सेढीअसखभागो सुए' इति इह संवर्तिछातचतुरस्रीकृतस्य लोकस्य सप्तरजुप्रमाणा एकैकप्रदेशा पतिः श्रेणिः, तस्या असङ्ख्येयभागः श्रुते-सामान्यश्रुतेऽक्षरा-15 है।त्मके प्रतिपत्तारो, लभ्यन्त इति शेषः, किमुक्तं भवति ?-यथोक्तरूपायाः श्रेणेः खल्वसङ्ख्येयतमे भागे यावन्तो नभःप्रदे-14 शास्तावन्त एकस्मिन् विवक्षिते समये उत्कर्षतः सामान्यश्रुतेऽक्षरात्मके सम्यक्त्वमिथ्यात्वानुगते प्रतिपद्यमाना भवन्तीति, Jain Educatio n al For Private & Personel Use Only TAMjainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy