SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ नामं १ ठवणा २ दविए ३ ओहे ४ भव ५ तब्भवे ६ य भोगे ७ य। संजम ८जस ९ कित्ती १० जीवियं च तं भण्णई दसहा ॥ १०५६ ॥ तज्जीवितं दशधा भण्यते, तद्यथा-नामजीवितं स्थापनाजीवितं द्रव्यजीवितमोघजीवितं भवजीवितं तद्भवजीवितं भोगजीवितं संयमजीवितं यशोजीवितं कीर्तिजीवितं च, एष गाथासमासार्थः॥ व्यासार्थ तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य शेषभेदव्याख्यानार्थमाह दवे सचित्ताई आउयसहब्बया भवे ओहे। नेरइयाईण भवे तब्भव तत्थेव उप्पत्ती ॥ १९० ॥ (भा.) द्रव्ये-द्रव्यविषयं जीवितं, द्रव्यजीवितमित्यर्थः, सचित्तादि सचित्तमचित्तं मिश्रं वा, इह कारणे कार्योपचारात् येन द्रव्येण सचित्ताचित्तमिश्रभेदेन पुत्रहिरण्योभयरूपेण यस्य यथा जीवितमायत्तं तस्य तथा तद् द्रव्यजीवितमुच्यते, उक्तं दद्रव्यजीवितं, 'आउयसद्दबया भवे ओहे' ओघजीवितं-सामान्यजीवितं आयुस्सद्व्यता-आयुःप्रदेशकर्म तस्य द्रव्यैः सह-1 MI(वर्त)मानता आयुःसद्रव्यता, आयुःकर्मद्रव्यसहचारिता जीवस्येत्यर्थः, इदं च सामान्यजीवितं सकलसंसारिणामविशेषण 81 सर्वदा भावि, तत इदमङ्गीकृत्य यदि परं सिद्धा एव मृता, न पुनरन्ये केचन, उक्तमोघजीवितं, नैरयिकादीनां नैरयिकतिर्यदङ्नरामराणां भव इति स्वस्वभवे स्थितिर्भवजीवितं, उक्तं भवजीवितं,'तम्भव तत्थेव उववत्ती तस्मिन् भवे भूयो जीवितं तद्भवजीवितं, किं तदित्याह-तत्रैवोत्पत्तिः तत्र-तस्मिन् अधिकृते तिर्यग्भवे मनुष्यभवे वा स्वकायस्थित्यनुसारेण भूयो भूय उत्पत्तिः, इदं चौदारिकशरीरिणामेवावसातव्यं, अन्यत्र निरन्तरं भूयो भूयस्तत्रैवोत्पत्त्यभावात् । उक्तं तद्भवजीवितं ॥ RARBOSASARAS REGREX । Jain Education For Private & Personel Use Only ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy