SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ जीवित निक्षेपाः श्रीआवतद्यथा-पूर्वश्रुतप्रत्याख्यानमपूर्वश्रुतप्रत्याख्यानं च, तत्र पूर्वश्रुतप्रत्याख्यानं प्रत्याख्यानसंज्ञितं पूर्व, अपूर्वश्रुतप्रत्याख्यानं मलयगि० त्वातुरप्रत्याख्यानादि, तथा नोश्रुतप्रत्याख्यानं श्रुतप्रत्याख्यानादन्यत् , तच्च द्विधा 'मूले तह उत्तरगुणे य' मूल गुणप्रत्याख्यानं उत्तरगुणप्रत्याख्यानं च, मूलगुणप्रत्याख्यानं द्विभेदं, तद्यथा-देशप्रत्याख्यानं सर्वप्रत्याख्यानं च, देशस्पर्शिका प्रत्याख्यानं श्रावकाणां, सर्वप्रत्याख्यानं संयतानां, सर्वप्रत्याख्यानेन चेहाधिकारः, सामायिकानन्तरं सर्व सावधं योगं दूप्रत्याख्यामीत्युपादानात् , इह वृद्धसम्प्रदायः-पच्चक्खाणे उदाहरणं, रायधूयाए पच्चक्खायं वरिसं जाव मंसं न खइयवं, ॥५७९॥ IMपारणगे अणेगाणं जीवाणं घातो कतो, साह विहरंता आगया, मंसं न पडिग्गहियं, तीए भणियं-किं तुझं अजवि वरिसं न पुजइ, साहहिं भणियं-जावजीवमम्हं मंसपञ्चक्खाणं, एत्थ धम्मकहा, सा संबुद्धा, पवइया, पुर्व दवपञ्चक्खाणं, पच्छा भावपच्चक्खाणं ॥ तदेवं व्याख्यातः प्रत्याख्यानमिति सूत्रावयवः, अधुना 'यावज्जीवयेति व्याख्यायते, तत्रादी भावार्थमभिधित्सुराहमाजावदवधारणम्मि जीवणमवि पाणधारणे भणि। आ पाणधारणाओ पावनिवत्ती इहं अत्थो ॥ १०५५॥ यावदित्ययं शब्दोऽवधारणे वर्तते, जीवनमपि प्राणधारणे भणितं, "जीव प्राणधारण'इति वचनात्, ततो यावज्जीवया प्रत्याख्यामीति, कोऽर्थः?-आ प्राणधारणात्-प्राणधारणं यावत पापनिवृत्तिरिति, परतस्तु न विधिनोपि प्रतिषेधः, का विधावाशंसादोपप्रसङ्गात् , प्रतिषेधे तु सुरादिषूत्पन्नस्य भङ्गप्रसङ्गात, इह च जीवनं जीव इति क्रियाशब्दो, न जीवतीति | जीवः-आत्मा पदार्थः, जीवनं च प्राणधारणं, जीवनं जीवितं चेत्येकार्थ, तत्र जीवितं दशधा, तथा चाह ॥५७९॥ Jain Education For Private & Personel Use Only w .ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy