________________
श्रीआव० मलयगि.
आमंत्रणप्रयोजन
वृत्तौ सूत्र-16
स्पर्शिका
॥५७३॥
NAGACASSAGAGGAGRICAGAR
न्तश्च, तत्र नामस्थापने प्रतीते, द्रव्यान्तो घटाद्यन्तः, क्षेत्रान्त ऊर्ध्वलोकादिक्षेत्रान्तः, कालान्तः समयाद्यन्तो, भावान्तो
औदयिकादिभावान्तः॥ | एवं समिवि वन्नियंमि एत्थं तु होइ अहिगारो । सत्तभयविप्पमुक्के तहा भवंते भयंते य ॥१८५॥ (भा.) त । एवम्-उक्तेन प्रकारेण सर्वस्मिन्ननेकभेदभिन्ने भयादौ वर्णिते सति अत्र प्रकृते भवत्यधिकारः सप्तभयविप्रमुक्तो यस्तेन, तथा यो भवान्तो यश्च भदन्तस्ताभ्यामिति, पश्चानुपूर्व्या ग्रन्थ इत्यदोषः॥ व्याख्यातं मूलद्वारगाथायां (भयान्तेति) द्वारद्वयं, तद्व्याख्यानाच भदन्त भवान्त भयान्त इति गुर्वामन्त्रणार्थः सूत्रावयवः, अथ सामायिकस्यादावेव गुरोरामन्त्रणवचः किमर्थ ?, उच्यते, गुरुकुलवासोपसंग्रहार्थ, यथा सर्वदैव हि शिष्यो गुणार्थी सन् गुरुकुलवासी भवेत् , गुरुकुलवासे वसतां प्रतिक्षणं ज्ञानादिगुणोत्सर्पणात् , उक्तं च भाष्यकृता-आमंतेइ करेमी भंते ! सामाइयंति सीसो य । आहा-8 मंतणवयणं गुरुणो किं कारणमियंति ? ॥१॥ भन्नइ गुरुकुलवासोवसंगहत्थं जहा गुणत्थी हि । निच्चं गुरुकुलवासी हवेज सीसो जतोऽभिहियं ॥ २॥ नाणस्स होइ भागी थिरयरतो दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥३॥ (विशे. ३४५७-८-९) अन्यच्च-सामायिकस्यादौ गुर्वामन्त्रणवचनमभिदधान एवं ज्ञापयति-सर्वकालं
प्रतिक्रमणं गुरुपादमूले कर्त्तव्यं, वसत्यन्तरेऽपि पृथक् कारणवशतः स वस्तुकामो गुरुपादमूले प्रतिक्रम्य वसति, तथा है शाच कल्पाध्ययनोक्ता एवं सामाचारी-"यदि लध्वी वसतिः ततोऽन्यत्र कतिपये साधवः संवस्तुकामा आचार्यसमीपे
प्रतिक्रम्य प्रादोषिककालग्रहणोत्तरकालं सूत्रपौरुषीमर्थपौरुषी च कृत्वा अन्यस्यां वसतौ गच्छन्ति, अथान्तरा श्वापदादिभयं
RECASSOCROCOCC
॥५७३॥
Jain EducationN S
For Private
Personel Use Only
Dimainelibrary.org