SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Jain Education भवति भदन्त इति, ‘भदुड् कल्याणे सुखे च' अस्मादौणादिकोऽन्तप्रत्ययः, औणादिकत्वादेव नमो लोपः, भदन्तःकल्याणः सुखश्चेत्यर्थः, प्राकृतत्वादामन्त्रणे 'भन्ते' इति भवति, अथवा प्राकृतशैल्या भवान्त इति द्रष्टव्यं तत्र भवस्य - संसारस्यान्तस्तेनाचार्येण क्रियते इति भवान्तकरत्वाद् भवान्तः, अथवा भयान्त इति द्रष्टव्यं तत्र भयं - त्रासः, तमाचार्य प्राप्य भयस्यान्तो भवतीति भयांतभवनात् भयान्तो- गुरुः, यदिवा अन्तं करोतीत्यन्तकः भयस्यान्तको भयान्तकः तस्य सम्बोधनं, उभयत्रापि प्राकृतत्वात् भन्ते इति भवति, तत्र रचना - ( नामादि) विन्यास लक्षणा भयस्य षड्भेदा-पद्मकारा, नामस्थापनाद्रव्यक्षेत्रकालभावभेदभिन्ना, तत्र नामस्थापने सुगमे, द्रव्यक्षेत्रकालभयान्यपि प्रतीतानि द्रव्याद्भयं द्रव्यभयमित्येवं सर्वत्र पञ्चमीतत्पुरुषसमाश्रयणात्, अन्यथा वा यथायोगं भावनीयं, भावभयं सप्तधा - इहलोकभयं परलोकभयं आदानभयमाकस्मिकभयं आजीविकाभयं अश्लोकभयं मरणभयं चेति, तत्र यत् स्वभवात्प्राप्यते यथा मनुष्यस्य मनुष्यात् तिरश्चः तिर्यग्भ्य इत्यादि तदिहलोकभयं यत् परभवादेवाप्यते, यथा मनुष्यस्य तिरश्चः तिरश्चो मनुष्यात् तत्पर - लोकभयं किञ्चन द्रव्यजातमादानं तस्य नाशहरणादिभ्यो भयं आदानभयं, यद् बाह्यनिमित्तमन्तरेणाहेतुकं भयमुपजायते तदकस्माद्भवतीत्याकस्मिकं, तथा 'श्लोकूड् श्लाघायां' श्लोकः - प्रशंसा श्लाघा तद्विपर्ययोऽश्लोकः तस्माद्भयं अश्लोकभयं | आजीविका - आजीवनं तस्या उच्छेदेन भयमाजीविकाभयं प्राणपरित्यागभयं मरणभयं, एवं अनुक्रमेणोक्तलक्षणेन सर्वस्मिन् वर्णितेऽन्तेऽपि षड् भेदा वर्णयितव्याः, तद्यथा - नामान्तः स्थापनान्तो द्रव्यान्तः क्षेत्रान्तः कालान्तो भावा For Private & Personal Use Only ainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy