SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ औदारिकसर्वपरिशाटं करोति, इहापि संयतमनुष्यभवचरमसमये सर्वपरिशाटविवक्षा व्यवहारनयमताश्रयणात्, परभवप्र| थमसमये निश्चयनयमतापेक्षया, ततो यथोक्तमन्तरपरिमाणं भवति, उक्तं च- "खुड्डागभवग्गहणं जहन्नमुकोसयं च तेत्तीसं । तं सागरोवमाई संपुन्ना पुबकोडी य ॥ १ ॥” अन्यथा समयन्त्रयहीन स्त्रयस्त्रिंशत्सागरोपम पूर्वकोटिप्रमाणताऽवसेया, याव| देवं व्यारव्यानुरोधेन व्याख्या कृता, तत्त्वतः पुनरेवं व्याख्या- 'तिसमयहीणं खुड्डुं होइ भवं सवबंधसाडाणं ।' सर्वबन्धस्य सर्वशादस्य च यथाक्रमं जघन्योऽन्तरकालः क्षुल्लकभवग्रहणं 'त्रिसमयहीन' मिति त्रिभिः- अर्थात् समयैः समयेन च हीनं त्रिसमयहीनं क्षुल्लकभवग्रहणं सर्वसङ्घातस्य जघन्योऽन्तरकालः, समयहीनं सर्वपरिशाटस्येति भावः, 'उक्कोसे' त्यादि, सर्वससङ्घातस्योत्कृष्टोऽन्तरकालः पूर्वकोटी समय उदधयश्च सागरोपमाणि त्रयस्त्रिंशत्, सर्वपरिशाटस्योत्कृष्टोऽन्तरकालः पूर्वकोटी समयेन हीना उदधयः समयोदधयः, गुडधाना इत्यादाविव मध्यपदलोपी समासः, समयेन हीनानि सागरोपमाणि त्रयस्त्रिंशद् भावना सर्वाऽपि प्रागुक्तैव द्रष्टव्या । सम्प्रति सङ्घातपरिशाटान्तरमुभयरूपमपि अभिधित्सुराह अंतरमेगं समयं जहन्नमोरालगहणसाडस्स । सतिसमया उक्कोसं तित्तीसं सागरा हुंति ॥ १६६ ॥ (भा.) 'अन्तरं ' अन्तरालं जघन्यं सर्वस्तोकं एकं समयमौदारिकस्य 'ग्रहणशाटस्य' ग्रहणं च शाटश्च ग्रहणशाटं तस्य, सङ्घातपरिशाटस्येत्यर्थः तथाहि यदा औदारिकशरीरी आयुःपर्यन्तं यावत् सङ्घातपरिशाटोभयं कृत्वाऽग्रेतनभवेऽविग्रहेणोत्पद्यौदारिकस्यैव सङ्घातं कृत्वा पुनरपि तदुभयमारभते तदा एकसमयो जघन्यमुभयान्तरमिति, उत्कृष्टमन्तरं त्रयस्त्रिंशत्सागरोपमाणि सत्रिसमयानि, तथाहि-यथा कश्चित् मनुष्यादिः स्वभवचरमसमये सङ्घातपरिशाटोभयं कृत्वाऽनुत्तर सुरेष्वप्रति Jain Educationational For Private & Personal Use Only Jainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy