SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीआव० मलयगि० वृत्तौ सूत्रस्पर्शिका ॥५६१ ॥ Jain Education Int स विन्नओ ॥ २ ॥ कथं पुनः सर्वपरिशाटस्य सर्वपरिशाटस्यान्तरपरिमाणं जघन्यं परिपूर्ण क्षुल्लकभवग्रहणं ?, उच्यतेइहानन्तरातीतभवचरमसमये कश्चिदौदारिकशरीरी सर्वपरिशाटं कृत्वा वनस्पतिष्वागत्य सर्वजघन्य क्षुल्लकभवग्रहणायुष्कमनुपालय पर्यन्ते सर्वपरिशाटं करोति ततः परिपूर्ण क्षुल्लकभवग्रहणमन्तरं भवति, इहानन्तरातीतभवचरमसमये सर्वपरि - शारविवक्षा व्यवहारनय मतापेक्षया, क्षुल्लकभवग्रहणमनुपालय पर्यन्ते परभवप्रथमसमये सर्वपरिशाटो निश्चयनयमतापेक्षया, ततो न कश्चिद्दोषः, अन्यथा क्षुल्लकभवग्रहणप्रथम समयस्य पूर्वभवशादेनाविरुद्धत्वात् समयहीनं क्षुल्लकभवग्रहणं जघन्यं परिशाटान्तरं स्यात्, तथा सर्वबन्धस्य सर्वसङ्घातरूप उकृत्ष्टोऽन्तरकालः पूर्वकोटी तथा समयः, तथा उदधिश्व - सागरोपमाणि च त्रयस्त्रिंशत्, तथाहि - कश्चित् पूर्वभवादविग्रहेण मनुष्यभवे समागत्य प्रथमसमये सङ्घातं कृत्वा पूर्वकोटिप्रमाणायुष्कं परिपाल्यानुत्तरसुरेषूत्पन्नः, तत्र त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टमायुष्कमनुभूय ततश्युत्वा समयद्वयं विग्रहे विधाय तृतीये | समये औदारिकशरीरस्य सङ्घातं करोति, इह विग्रहप्रसक्तसमयद्वयमध्यादेकः प्राक्तनपूर्वकोढ्यां प्रक्षिप्यते, तत्र त्रयस्त्रिंशत्सागरोपमाणि समयाधिकपूर्वकोट्यधिकान्युत्कृष्टमादारिकशरीरसङ्घातान्तरं लभ्यते इति, तथा चोक्तम्- “उक्को तेत्तीसं समयाहिय पुबको डिसहियाई । सो सागरोवमाई अविग्गहेणेव संघायं ॥ १ ॥ काऊण पुवकोडिं धरिडं सुरजेट्ठमाउयं तत्तो । भोत्तृण इहं तइए समये संघातयंतस्स ||२||” सर्वपरिशाटस्य उत्कृष्टोऽन्तरकाल एष एव समयहीनः, किमुक्तं भवति ? - परिपूर्णानि त्रयस्त्रिंशत्सागरोपमाणि सम्पूर्णा च पूर्वकोटी, तथाहि - कश्चित् संयतमनुष्यः स्वभवचरमसमये औदारिकपूर्वपरिशाटं कृत्वाऽनुत्तरेषु त्रयस्त्रिंशत्सागरोपमाण्यतिवाह्य पुनर्मनुष्येष्वौदारिकसर्वसङ्घातं कृत्वा पूर्वकोट्यन्ते परभवप्रथमसमये For Private & Personal Use Only संघातादिकरणान ॥५६१॥ elibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy