________________
Jain Education
सङ्घातपरिशाटोभयकालः, ततस्तेन सङ्घातनासमयेन ऊनं पल्योपमत्रयमिति, ननु यथा सङ्घातसमयेनोनं पल्योपमत्रयं मतं तथा परिशाटसमयेनापि, ततो द्विसमयहीनं पल्योपमत्रयं प्राप्नोति, तदयुक्तं वस्तुतत्त्वापरिज्ञानात्, निश्चयतो हि भवस्य चरमेऽपि समये सङ्घातपरिशाटावेव, परिशाटस्तु परभवप्रथमसमयेन, अत एकेन समयेनोनता, न द्वाभ्यामिति, उक्तं च- "उकोसो समऊणो जो सो संघयणासमयहीणो । किह न दुसमयविहीणो साडणसमएडवणीयंमि ? ॥ १ ॥ भण्णइ भवचरमंमिवि समए संघायसाडणा चेव । परभवसमए साडणमतो तदूणो न कालोत्ति ॥ २ ॥” एवमौदारिके जघ | न्येतरभेदः सङ्घातपरिशाटकाल उक्तः, सङ्घातपरिशाटयोस्त्वेक एव समयः, द्वितीयस्यासम्भवात्, अधुना सङ्घातादिविरहो जघन्येतरभेदोऽभिधीयते, तथा चाह
तिसमयहीणं खुड्डुं होइ भवं सवबंध-साडाणं । उक्कोस पुत्रकोडी समयो उदही अ तित्तीसं ॥ १६५ ॥ (भा.)
त्रिसमयहीनं क्षुल्लं, ‘भवं' ति संपूर्ण क्षुल्लकभवग्रहणं, यथाक्रमं सर्वबन्धशाटयोरन्तरकालः, किमुक्तं भवति ? - सर्वसङ्घातकरणस्य जघन्योऽन्तरकालस्त्रिसमयहीनं क्षुल्लकभवग्रहणं, सम्पूर्णं तु क्षुल्लकभवग्रहणं परिशाटस्येति, कथं सर्वसङ्घातस्य जघन्यान्तरकालस्त्रिसमय हीनं क्षुल्लकभवग्रहणं ?, उच्यते, यदा कश्चिदेकेन्द्रियादिजवो मृतः सन् समयद्वयं विग्रहे कृत्वा क्षुल्लकभवग्रहणा युष्केषु पृथिव्यादिषूत्पन्नः तृतीयसमये औदारिकस्य सङ्घातं कृतवान् तदा औदारिकशरीरमधिकृत्य सङ्घातस्य त्रिसमयन्यून क्षुल्लक भवग्रहणप्रमाणो जघन्योऽन्तरकालः, उक्तं च- "संघायंतरकालो जहन्नओ खुड्डगं तिसमऊणं । दो विग्गमि समया तइओ संघायणासमओ ॥ १ ॥ तेहूणं खुड्डगभवं धरिडं परभवमविग्गहेणेव । गंतूण पढमसमये संघातयतो
For Private & Personal Use Only
Inelibrary.org