SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ S OCASH शीर्षमुर उदरं पृष्ठं द्वौ बाहू द्वौ च ऊरू इत्यष्टावङ्गानि, अङ्गल्यादीनि उपाङ्गानि, शेषाणि करपादादीनि अङ्गोपाङ्गानि ॥ किञ्च केसाईउवरयणं उरालविउवि उत्तरं करणं । ओरालिए विसेसो कण्णाइणट्ठसंठवणं ॥१६१॥ (भा.) । केशाधुपरचनं-केशादिनिर्मापणसंस्कारी आदिशब्दान्नखदन्तरागादिपरिग्रहः, औदारिकवैक्रिययोरुत्तरकरणं, यथासम्भवं चेह योजना कार्या, तथा औदारिके उत्तरकरणे विशेषः, कर्णादिविनष्टसंस्थापनं, न चेदमुत्तरकरणं वैक्रियादौ सम्भवति, विनाशाभावात् , विनष्टस्य च सर्वथा विनाशेन संस्थापनाऽभावात् , केशाद्युपरचनरूपं तूत्तरकरणमाहारके न सम्भवति, प्रयोजनाभावात् , ततो गमनागमनादिरूपं तत्तत्रावसातव्यम् , अथवेदमन्यादृक् त्रिविधं करणम् , तद्यथा-सङ्घातकरणं परिशाटकरणं सङ्घातपरिशाटकरणं च, तत्राद्यानां त्रयाणां शरीराणां तैजसकार्मणरहितानां त्रिविधमप्यस्ति, द्वयोस्तु चरमद्वयमेव ॥ तथा चाह| आइल्लाणं तिण्हं संघाओ साडणं तदुभयं च । तेआकम्मे संघायसाडणं साडणा वाऽवि ॥१६२॥ (भा.) __ आद्यानां त्रयाणाम्-औदारिकवैक्रियाहारकरूपाणां शरीराणां सङ्घातः शाटनं तदुभयं च-सङ्घातपरिशाटौ, तैजसकामणे है|च सङ्घातपरिशाटौ शाटनं वापि, न तु सङ्घातोऽनादित्वात् ॥ साम्प्रतमौदारिकमधिकृत्य सङ्घातादिकालमानमभिधित्सुराह संघायमेगसमयं तहेव परिसाडणं उरालम्मि । संघायणपरिसाडो खुडागभवं तिसमऊणं ॥१६३ ।। (भा.) सङ्घातमिति सर्वसङ्घातकरणमेकसमयं भवति, एकान्तादानस्य एकसामयिकत्वात् , अत्रघृतपूपो दृष्टान्तः, यथा घृतपूर्ण AUSSAGESTAS Jain Education G ional For Private & Personal Use Only Mjainelibrary.org
SR No.600063
Book TitleAvashyaksutram Part_3
Original Sutra AuthorMalaygiri, Bhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1936
Total Pages340
LanguageSanskrit, Hindi
ClassificationManuscript & agam_aavashyak
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy