________________
USISAARHUS
तरभेदेन करणमाह-सादि चक्षुःस्पर्श, चाक्षुषमित्यर्थः, अभ्रादि, आदिशब्दात् शकचापादिपरिग्रहः, 'अचक्खुए'त्ति अचाक्षुष-अण्वादि, आदिशब्दाद् व्यणुकादिपरिग्रहः, करणता चेह कृतिः करणमितिकृत्वा, अन्यथा वा स्वबुद्ध्या योजनीया ॥ सम्प्रति चाक्षुषाचाक्षुषभेदमेव विशेषेण प्रतिपादयति
संघाय-भेअ-तदुभयकरणं इंदाउहाइ पच्चक्खं । दुअअणुमाईयाणं छउमत्थाईणपञ्चक्खं ॥ १५५ ।। (भा.) ____ संघातः संहननं, भेदो विघटनं, तच्छब्देन सङ्घातभेदौ परामृश्येते, तच्च तत् उभयं च तदुभयं, सङ्घातभेदतदुभयैः करणं, क्रियते इति कर्मसाधनः करणशब्दः, सङ्घातभेदतदुभयकरणं इन्द्रायुधादि स्थूलमनन्तपुद्गलात्मकं प्रत्यक्षं, चाक्षुपमित्यर्थः, तथाहि-अभ्रादीनां क्वचित् केचित् पुद्गलाः संहन्यते एव क्वचित् केचित् भिद्यन्त एव कचित् केचित् संहन्यन्ते भिद्यन्ते चेति सङ्घातभेदतदुभयकरणं, व्यणुकादीनां आदिशब्दात्तथाविधानन्ताणुकान्तानां पुनः, करणमिति वर्तते, छद्मस्थादीनां आदिशब्दः स्वगतानेकभेदप्रतिपादनार्थमाह, अप्रत्यक्षम् , अचाक्षुपमित्यर्थः, उक्त विस्रसाकरणम् , अधना प्रयोग
करणं वक्तव्यम् , तत्र प्रयोगो नाम जीवव्यापारः तेन यद् विनिर्माप्यते सजीवमजीवं वा तत् प्रयोगकरणं, उक्तं च-"होइ Pापयोगो जीववावारो तेण जं विणिम्मायं । सज्जीवमजीवं वा पयोगकरणं तयं बहुहा ॥१॥" एतदेवाह
जीवमजीवे पाओगिअंत चरिमं कुसुंभरागाई। जीवप्पओगकरणं मूले तह उत्तरगुणे अ॥१५६॥ (भा.)
प्रायोगिकं करणं द्विधा-जीवे अजीवे च, जीवप्रायोगिकमजीवप्रायोगिकं चेत्यर्थः, प्रयोगेण निर्वत्तं प्रायोगिक ततचरमम्-अजीवप्रयोगकरणं कुसुंभरागादि, आदिशब्दात् शेषवणोदिपरिग्रहः, एवं तावदल्पवक्तव्यत्वादमिहितं ओषतीज्जीव
OSHIRILISISSAISIAIS
आ. सू.९५
CAUSAS
Jain Education
a
l
For Private Personal Use Only
ainelibrary.org